________________
[१५
चतुःशरणप्रतिपत्तिद्वारम्]
[श्रीपुण्डरीकगौतमप्रमुखा गणधारिणो महामुनयः ।
त्रिभुवनप्रणतचरणाः शरणं मम मोहनिष्ठापनाः ॥] स्पष्टा ॥२३॥
अथेह भरते द्वादश चक्रिणोऽभूवन्, तेषु च त्रयः शान्ति-कुन्थु-अरनाथास्तीर्थनाथा अपि बभूवुः । ते तु जिनाधिनाथवीथीषु शरणीकृतपूर्वाः । द्वौ च 5 सुभूमब्रह्मदत्तनामानौ दुर्गतिगतत्वादयोग्यौ । शेषांश्चक्रिराजर्षीन् शरणीकुर्वन्नाह -
भरहो सणंकुमारो सगरो मघवं जओ य हरिसेणो । तह सुपरमो य सत्त वि चक्कवईमुणिवई सरणं ॥२४॥
[भरतः सनत्कुमार सगरो मघवा जयश्च हरिषेणः ।
तथा सुपद्मश्च सप्तापि चक्रवर्तिमुनिपतयः शरणम् ॥] इयमपि सुगमैव ॥२४॥ अथ बलभद्रमुनीन् शरणीकुर्वन्नाह - तिव्वतवखग्गखंडियभवपायववियडपयडियपहावा । सरणं नवबलदेवा वरगुणरयणायरा मज्झ ॥२५॥ [तीव्रतपःखड्गखण्डितिभवपादपविकटप्रकटितप्रभावाः ।
शरणं नवबलदेवा वरगुणरत्नाकरा मम ॥] व्याख्या । नव च ते बलदेवा नवबलदेवा अचल-विजय-भद्र-सुप्रभसुदर्शन-आनन्द-नन्दन-पद्म-रामनामानो बलदेवा राजर्षयो ‘मज्झ' मम शरणं 'भवन्तु' इति शेषः । किंविशिष्टाः ? 'वरगुणरयणायरा' वराणि निर्दूषणानि च तानि तपोदमजपोद्यमसंयमस्वाध्यायध्यानरूपा गुणा एव रत्नानि तेषामाकराः प्रभव- 20 भूमयः । पुनः किंविशिष्टाः ? 'तिव्वतव' - इति पूर्वार्धम्, तीव्र तीक्ष्णं च तत् तपश्च तीव्रतपस्तदेव खड्गस्तरवारिस्तेन खण्डितश्चासौ भवपादपः संसारतरुश्च स तथा तेन विकटं विपुलं प्रकटितः प्रकाशितः प्रभावो महिमा यैस्ते तथा ॥२५॥