________________
१४]
[विवेकमञ्जरी अपि च । ईर्याभाषैषणादाननिक्षेपोत्सर्गसञ्जिताः पञ्च समितयः । भावनाश्चानित्यतादयो द्वादश वक्ष्यन्ते । प्रतिमाश्च भिक्षूणां द्वादश । तत्र स्वनामसदृशार्था प्रथमा एकमासिकी, द्वितीया द्विमासिकी, तृतीया त्रिमासिकी, चतुर्थी चतुर्भासिकी, पञ्चमी पञ्चमासिकी, षष्ठी पाण्मासिकी, सप्तमी सप्तमासिकी, अष्टमी नवमी दशमी च 5 सप्तसप्ताहोरात्रिकी, एकादशी तु अहोरात्रिकी, द्वादशी चैकरात्रिकी; यदाहुः
"मासाई सत्तंता पढमा दु तईय सत्तराइंदी ।
अहराई एगराई, भिक्खुपडिमाण बारसगं" ॥ [सं.प्र./७३८] इन्द्रियनिरोधस्तु पञ्चविधः स्पष्टः । प्रतिलेखनाश्च पञ्चविंशतिवस्त्रस्य वपुषः पात्रस्य च, तद्यथा -
"इंग दिट्ठी छप्पुरिमा नव अखोड पखोड वत्थपणवीसा । भुयजुयसिरमुहहियए तिय तिय चउ पुट्ठि छ पय पणवीसा ॥ [ बारस बाहिं ठाणा बारस ठाणा य हुंति मज्झम्मि ।
पत्तपडिलेहणाए पणवीसयमो करप्फंसो" ॥ [ ] , तिस्रो गुप्तयस्तु विश्रुताः । अपि चाभिग्रहा द्रव्य-क्षेत्र-काल-भावभेदैश्चत्वार 15 इत्येकत्र संमीलितं करणमपि सप्ततिधा । पुनः किंविशिष्टो भगवान् गौतमः ?
'भयभयहरो' भवात् संसाराद् भयं भवभयं तद् हरत्यपनयतीति भवभयहरः । केषाम् ? 'भवियाणं' भविकानामिति ॥२२॥ अथ बाहुल्येन सर्वानपि गणभृतः स्तौति - -
सिरिपुंडरीयगोयमपमुहा गणहारिणो महामुणिणो । 20 तिहुयणपणमियचरणा सरणं मम मोहनिट्ठवणा ॥२३॥ १. मासादयः सप्तान्तां प्रथमा द्वितीया तृतीया सप्तरात्रिदिवसिकी।
अहोरात्रिक्यैकरात्रिकी, भिक्षुप्रतिमानां रूादशकम् ।। २. एका दृष्टिः षट् पूर्वभागा नवेतस्ततो वस्त्रपञ्चविंशतिः ।
भुजयुगाशिरोमुखहृदयस्य त्रयस्त्रयश्चत्वारः पृष्ठस्य षट् पादस्य पञ्चविंशतिः ॥ द्वादश बहि: स्थानानि द्वादश स्थानानि च भवन्ति मध्ये । पात्रप्रतिलेखनायां पञ्चविंशतितमः करस्पर्शः ॥