________________
[११
चतुःशरणप्रतिपत्तिद्वारम्] अथ गाथायुगलेन साधूनुपश्लोकयति - अड्डाइज्जा दीवा पन्नरस तेसु कम्मभूमीओ । जे के वि तत्थ साहू पंचमहव्वयधरा धीरा ॥२०॥ अट्ठारससीलंगसहस्सधुराधरणलद्धमाहप्पा । कंदप्पदप्पदलणा तेसिं चलणा सुहं दितु ॥२१॥
[अर्धतृतीयो द्वीपौ पञ्चदश तयोः कर्मभूमयः । ये केऽपि तत्र साधवः पञ्चमहाव्रतधरा धीराः ॥ अष्टादशशीलाङ्गसहस्रधुराधरणलब्धमाहात्म्याः ।
कन्दर्पदर्पदलनास्तेषां चरणाः सुखं ददतु ॥] व्याख्या – 'अड्डाइज्जादीवा' "द्विवचनस्य बहुवचनम्" [हे.प्रा. ३/१३०] इति 10 प्राकृतलक्षणात्, अर्धं तृतीयः पुष्करवरनामा द्वीपो ययोस्तावर्धतृतीयौ द्वीपौ धातकीखण्डजम्बूनामानौ ‘पन्नरस तेसु कम्मभूमीओ' कर्मणां शुभानामशुभानामपि भूमयो जन्मस्थानानि कर्मभूमयः । तत्र जनितानि किमुच्यन्ते ? अन्यत्रोपार्जितान्यपि कर्माणि तासूत्पद्य जीवैर्भोगभूमिगतैरुपभुज्यन्त इति । क्व सन्ति ताः ? 'तेसु' तयोरर्धतृतीययोर्कीपयोः । कति ? ‘पन्नरस' पञ्चपञ्चभरतैरवतमहाविदेहसंज्ञिताश्च 15 ताः पञ्चदश । 'जे के वि तत्थ साहू' ये केऽप्यर्निचवनीयमहिमास्तत्र साधवो मुनयः सन्ति। किंविशिष्टाः ? 'पंचमहव्वयधरा' पञ्चमहाव्रतधराः । अत एव धीरा धिया बुद्ध्या राजन्त इति धीराः । पुनश्च किंरूपा ? 'अट्ठारससीलंगसहस्सधुराधरणलद्धमाहप्पा' शीलानि सच्चरितानि तेषामङ्गान्यवयवाः शीलाङ्गानि, तेषां सहस्राः शीलाङ्गसहस्राः, अष्टादश ते च शीलाङ्गसहस्राश्च अष्टादशशीलाङ्गसहस्राः । 20 तथा च वाचकः -
"धर्माद् भूम्यादीन्द्रियसञ्जाभ्यः करणतश्च योगाच्च ।
शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिः" ॥ [प्र.२/२४४] इति । तेषां धूर्भारोऽष्टादशशीलाङ्गसहस्त्रधुरा, तस्या धरणं यावज्जीवमुद्वहनम्, यदाहुः -