________________
१२]
10
"वुब्भंति नाम भारा त च्चिय वुब्भंति वीसमंतेहिं । सीलभरो वोढव्वो जावज्जीवं अविसामो ॥" [ ]
तेन लब्धं माहात्म्यं महिमा यैस्ते तथा । अत एव 'कंदप्पदष्पदलणां' कन्दर्पस्य सुरासुरविजयिनो मन्मथस्य दर्पं गर्वं दलयन्ति चूर्णयन्तीति कन्दर्पदर्पदलनां । 5 'तेसिं चलणां ' तेषामेवंविधानां गुणरत्नसिन्धूनां साधूनां चलना: पादाः 'सुहं दिंतु' सुखं समाधानं ददत्विति ॥२०॥२१॥
अथासन्नोपकारिणः श्रीवर्धमानविभोः प्रथमगणधरमुपश्लोकयन्नाह -
सिद्धंतसुत्तहारोपयडियवरचरणकरणववहारो ।
भवियाण भवभयहरो सिरिगोयमगणहरो जय ॥२२॥
[सिद्धान्तसूत्रधारः प्रकटितवरचरणकरणव्यहारः भविकानां भवभयहरः श्रीगौतमगणधरो जयति ॥]
व्याख्या श्रिया ज्ञानलक्ष्म्या उपलक्षितो गौतमो गोतमगोत्रसंभवश्चासाविन्द्रभूतिनामा श्रीगौतमगणधरः, जयति सर्वोत्कर्षेण वर्तते । किंविशिष्टः ? 'सिद्धंतसुत्तहारो' सिद्धान्तो द्वादशाङ्गं गणिपिटकं तस्य सूत्रं त्रिपदी तां धारयति विस्तार15 यतीति सिद्धान्तसूत्रधारः; यदुक्तमस्माभिर्गणधरावल्याम् -
-
[ विवेकमञ्जरी
“श्रीमाननेकपभटैकपतिर्नवीनः पायादपायगहनाज्जगदिन्द्रभूतिः ।
विस्तार्य मञ्जुलपदस्त्रीपदीमदीनजातिर्न जातु बत यः शिथिलीचकार ॥" [] पुनः किंविशिष्टः ? 'पयडियवरचरणकरणववहारो' प्रकटितः प्रकाशितो वरः शुद्धश्चरणकरणयोर्व्यवहारः क्रिया येन स तथा । चरणकरणे च प्रत्येकं
20 सप्ततिधा,
यथा
—
“वयसमणधम्मसंजमवेयावच्चं च बंभगुत्तीओ ।
नाणाइतियं तवकोहनिग्गहा इइ चरणमेयं ॥ " [सं.प्र./ ७३६ ]
१. उह्यन्ते नाम भारास्तं एवोह्यन्ते विश्राम्याद्भिः । शीलभरो वोढव्यो यावज्जीवमविश्रामः ॥
२. व्रतश्रमणधर्मसंयमवैयावृत्त्यं च ब्रह्मचर्यगुप्ती । ज्ञानादित्रिकं तपः क्रोधनिग्रहाविति चरणमेतत् ॥