________________
३०९]
गुणानुमोदनाद्वारे मेघकुमारकथा]
ततः पूर्वापराद्धेभयूना व्यूढेन हस्तिना। तत्रागतेन दन्ताभ्यां विद्धस्त्वं कटु चारटः ॥२५॥ सप्तमोर्व्यामिव प्राप्तः सप्तरात्रमिति व्यथाम् । विषह्य पालयित्वायुः समा विंशोत्तरं शतम् ॥२६।। आर्तध्यानेन मत्वात्र भारते विन्ध्यपर्वते । चतुर्दन्तः करी मेरुप्रभो यूथाधिपोऽभवः ॥२७॥ युग्मम् ॥ ततो ग्रीष्मे दवं दृष्ट्वा संभ्रान्तः समचिन्तयः । मयेदृग्दृष्टपूर्वोऽग्निसंभ्रमः क्वचिदप्यहो ! ॥२८॥ चिन्तयन्निति संजातजातिस्मृतितया व्यधाः । प्रावृष्युत्पाट्य विटपिविटपान् स्थण्डिलत्रयम् ॥२९॥ ग्रीष्मकाले तथैवाथ दीप्यमाने दवानले । भीतो दहनतस्त्वं तु प्रथमं स्थण्डिलं गतः ॥३०॥ तदने परितोऽभ्येत्य निकुञ्जेभ्योऽग्निभीरुभिः । उपर्युपरि संलीनैर्नीरन्ध्र श्वापदैर्वृतम् ॥३१॥ . मुक्त्वा तत्कृपया तेषां द्वितीयं स्थण्डिलं गतः । तत्तथैव ततोऽयासीस्तृतीयं सपरिच्छदः ॥३२॥ अस्थास्तत्र निराबाधे प्रविश्य करिणीयुतः ।। तारिकासहितः सायं नभसीव निशाकरः ॥३३॥ कण्डूयितुं ततः स्वाङ्गमेकोऽहिस्त्वयकोद्धृतः । स्थानेऽत्र शशकोऽभ्येत्य तस्थौ दावभयातुरः ॥३४॥ कृतकण्डूयनो यावद्यथास्थानेऽमुचः पदम् । स्पृष्टश्च तावदेतेन शनकैः शशकस्त्वया ॥३५।। सहसैष त्वयाऽऽकुञ्च्य धृतो जीवानुकम्पया । त्रिभिरेव स्थितं पादैः कृपाहो ! ते पशोरपि ॥३६॥
15
20