SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ३०७] गुणानुमोदनाद्वारे मेघकुमारकथा] अथ मेघकुमारो यथा - $$ अस्ति स्वस्तिकमाणिक्यराजि राजगृहं पुरम् । आसीत्तत्र गुरुश्रेणिकलितः श्रेणिको नृपः ॥१॥ तत्प्रिया धारिणी नाम सामजस्वप्नसूचितम् । सुरत्नं रत्नगर्भव गर्भे सुतमधारयत् ॥२॥ तस्यास्तृतीयमासेऽब्दवृष्टिखेलनदोहदम् । अकाले पूरयामास राजा दिव्यानुभावतः ॥३॥ असूयत तया सूनुः समये निःसमद्युतिः । दोहदान्वयतो मेघकुमार इति विश्रुतः ॥४॥ पाल्यमानः क्रमेणाप वृद्धि नृपतिनन्दनः । असौ धात्रीभिरुद्यानपालीभिरिव चन्दनः ॥५॥ अष्टादश लिपीस्ततो द्विगुणान्यायुधानि सः । ततोऽपि द्विगुणा बिभ्रत् कला भेजेऽथ यौवनम् ॥६॥ इतश्चान्येधुरुद्याने वने गुणशिलाभिधे । यथाविहारं श्रीवीरः समेत्य समवासरत् ॥७॥ श्रेणिकः सपरीवारो निरीय नगरादथ । प्रणन्तुमाययौ नाधं स्वर्गादिव पुरन्दरः ॥८॥ प्रणम्योचितभूपीठप्रतिष्ठेषु नृपादिषु । स्वामी संसारधिक्कारदायिनी देशनां व्यधात् ॥९॥ देशनान्ते प्रबुद्धात्मा विभुं मेघो व्यजिज्ञपत् । नाथ ! संसारपाथोधितरीं दीक्षां प्रयच्छ मे ॥१०॥ जगादाथ जगन्नाथः प्रमादं वत्स ! मा कृथाः । ततश्चानेन पितरावापृष्टौ नम्रमौलिना ॥११॥ कृच्छ्रादनुमतस्ताभ्यामथ मेघो महोत्सवात् । जग्राह साग्रहो दीक्षां करेण परमेशितुः ॥१२॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy