________________
[३०६
[विवेकमञ्जरी तत्कालं तन्महाज्ञानमहिमानं वितेनिरे ! देवा जयजयेत्युच्चैरुच्चरन्तश्चतुर्विधाः ॥६१॥ द्रव्यलिङ्गं समादत्स्व नमस्कृर्मो यथा वयम् । .. त्रिदशैरिति विज्ञप्तः केवली तत्तथाऽकरोत् ।।६२।। वंशः स एव कनककमलं तत् क्षणादभूत् । विमानिभिः स्थितोऽत्रैव नतोऽसौ देशनां व्यधात् ॥६३।। उन्मुखैर्भूचरै राजादिभिर्विस्मितमानसैः । चातकैरवि मेघाम्भः पपे तद्देशनावचः ॥६४॥ प्रबुद्धा बहवो जीवास्तस्य देशनया तदा । केचिद् दिग्विरतिं सर्वविरति केचनाश्रयन् ॥६५।। राजा स्वेङ्गितवैराग्यादात्मवैराग्यतो नटी । राज्ञी च राजवैराग्यात् तत्पा— जगृहुव्रतम् ॥६६॥ तदानीमेव तस्योच्चस्तस्थुषः कमलासने । सर्वे ते क्षपकश्रेणिमारुह्यासन् समासनाः ॥६७॥ क्रमादिलातीतनयो मुनीन्दुस्तैः साकमुत्पाकसमृद्धिपात्रम् । निर्धूय निर्धूतभवो भवोपग्राहीणि कर्माणि शिवं प्रपेदे ॥६८॥
॥ इतीलातीपुत्रकथा ॥