________________
३०५]
गुणानुमोदनाद्वारे इलातीपुत्रकथा]
दृष्ट्वा तद् व्रतिनोर्द्वन्द्वमद्वन्द्वशमभाजनम् । इलासूनुरथोत्सूनभावोद्वेगो व्यभावयत् ॥४९॥ "अहो ! मोहस्य विहितद्रोहस्याब्धेश्च तुल्यता । स्ताघो यस्य महावंशैरपि न प्राप्यते क्वचित् ॥५०॥ यदुच्चकुलसम्भूतोऽप्यहमुच्चकुलोद्भवाः। सुकन्या लभमानोऽपि व्यलगं नीचयोषिति ॥५१॥ मन्मुखं को नु वीक्षेत गृह्णीयाद मेऽभिधां च कः । भाषते कोऽपि मां को नु पदेनापि स्पृशेच्च माम् ? ॥ येन मोहमहान्धेनाऽकार्यसज्जेन पातितम् । असुखे हा ! मनः पित्रोनिनिमित्तोपकारिणोः ॥५३॥ मानिता न सुहृद्वाचो गणितं नात्मलाघवम् । जनवादाच्च नो भीतं कुलाङ्गारेण हा ! मया ॥५४॥ ही ! नीरवाहवन्नीचैमिना यत्कृतं मया। रुष्टे राज्ञीह तज्जातमकृत्यमपि निष्फलम् ॥५५॥ अयं च रमणी राजवंशमुक्तामणीनृपः । भुञ्जानोऽपि यदेतस्यां रज्यते नटयोषिति ॥५६॥ तन्मन्ये मोहराजस्याविषयः कोऽपि न क्वचित् । मुक्त्वा जिनमुनीनेतान् महाव्रतधुरन्धरान् ॥५७॥ विषयीकृर्वते स्वदृशामेणीदृशोऽपि न । ईर्यायै न्यङ्मुखा धारासारसिक्ता वृषा इव ॥५८॥ तदेत एव धन्या ये विमलं ब्रह्म बिभ्रति । यत्र चामी प्रवर्त्तन्ते मार्गः सोऽस्तु ममापि हि ॥५९॥ इति भावयतस्यतस्य विगलत्पापकर्मणः । विपेदे मोहसन्तानमुत्पेदे केवलं महः" ॥६०॥