SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ [३०४ [विवेकमञ्जरी स्वयं वंशाद् निपत्योच्चैनटोऽयं म्रियते यदि । नटीमेतां तदाऽक्लेशात् क्षिपाम्यन्तःपुरे निजे ॥३७॥ इतश्च वीक्ष्यमाणः खे खेचरैर्भूचरैरपि। .... इलासूनुः किलाऽधत्त करणानि चतुर्दश ॥३८॥-. सप्त पश्चात्पुरः सप्त तान्यथो फलकोपरि । ऊोऽस्थात् कीलकान् कृत्वा पादुकारन्ध्रगोचरान् ॥३९॥ पौरामात्यादयस्तस्य नाट्यातिशयरञ्जिताः । दध्युर्ददाति राजा चेदस्मै दद्मो वयं ततः ॥४०॥ राजापि मृत्युमाकाङ्क्षस्तस्यान्तर्विस्मितोऽपि हि । ऊचे न किञ्चिदालोकि मयैतत् तत्पुनः कुरु ॥४१॥ विलक्षीभूय कृष्णास्यैः पौरामात्यैरथ स्थितम् । स तु लोभात् पुनस्तेने करणानि चतुर्दश ॥४२।। नृपस्तत्पतनाकाङ्क्षी जगाद पुनरप्यदः । व्यलोकि न तथा सम्यक् करणानि पुनः कुरु ॥४३॥ नृपाविवेकविमनाः सर्वोऽप्यासोज्जनस्ततः । इलासूनुः पुनर्लोभात् तत्तथा कष्टमातनोत् ॥४४॥ राजा तथैव चाचख्याविलातीतनयः पुनः । शङ्कितश्चिन्तयामास किमयं ग्रहिलो नृपः ? ॥४५॥ अज्ञानो वाथ विद्वेषी यदेवं वक्ति मां मुहुः । चिन्तयन्निति तं दृष्टिविकाराद् ज्ञातवानयम् ॥४६।। तदा च प्रांशुवंशाग्राधिरूढोऽयमलोकत । इभ्यगेहे क्यचिद्भिक्षाकृते प्राप्तं मुनिद्वयम् ॥४७|| ईयैषणेक्षणाभ्यस्तमीक्षणं क्षणमप्यहो ! । अददानं पुरो दानं ददत्यामपि योषिति ॥४८॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy