________________
गुणानुमोदनाद्वारे इलातीपुत्रकथा ]
ऊचुस्ते नोऽक्षतं रत्ननिधानमियमङ्गजा । विक्रीणामो वयं नैतां वसुभिः प्रचुरैरपि ॥२५॥ अथ ते प्रतिबन्धोऽस्यां तदागच्छ मिलाशु नः । शिल्पं शिक्षस्व चास्माकं तवैवेयं प्रिया ततः ॥ २६ ॥ इति स्वस्यावधीर्योच्चैः कुलं शीलमथो यशः । नटानाममिलत्तेषामहो कामग्रहो बली ॥२७॥ अहो ! नटीकृते नृत्यपटीयानप्यभूदयम् । यद्वा योषित्कृते शम्भुरपि जज्ञे महानटः ॥२८॥ ततो बन्नातटपुरं नटपेटकसंयुतः । ययाविलातीपुत्रोऽपि द्रविणार्जनहेतवे ॥२९॥ प्रेक्षाकृते तमादिक्षत्तत्र राजारिमर्दनः । तद्वर्ग्या राजसौधाग्रेऽवसरप्रसरं व्यधुः ||३०|| तदा नान्दीरवाहूताः स्यूताः कौतुकरंहसा । उपर्युपरि नीरन्ध्रममिलन् परितः प्रजाः ॥३१॥ सान्तःपुरपरीवारः पौरामात्यादिभिर्वृतः । कृट्टिमाग्रसभावेदीमलञ्चक्रे च भूपतिः ॥३२॥ रङ्गभूमौ नटा वंशं तदा प्रांशुममण्डयन् । वरत्राभिश्चतसृभिर्भववद् गतिभिर्युतम् ॥३३॥ उभयप्रान्तविश्रान्तकीलिकं फलं च ते । वंशोपरि न्यधुः सिद्धिशिलामिव भवोपरि ||३४|| खड्गखेटकहस्तोऽड्रिविलसत्पादुकाद्वयः । इलासूनुरथारोहद्वंशं विश्वमनोऽपि च ॥३५॥ स्थितां वंशमवष्टभ्य शालभञ्जीमिवाग्रतः । नटीमालोकयन् राजा तदानीमित्यचिन्तयत् ॥३६॥
३०३ ]
5
10
15
20