SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ [३०२ [विवेकमञ्जरी अथास्यां रूपलावण्यविज्ञानातिशयेक्षणात् । असौ भवान्तरप्रेमाभ्यासादप्यन्वरज्यत ॥१३॥ एतस्यां मोहितश्चित्रन्यस्तवल्लेप्यक्लृप्तवत् । .......... पाषाणोत्कीर्णवच्चास्थाद् यन्त्रकीलितवच्च सः ॥१४॥ दृष्ट्वेति जल्पितो मित्रै!चे किञ्चन लज्जया । भूयोऽप्यभिहितोऽवादीदयं मुक्तत्रपो द्रुतम् ॥१५॥ भो वयस्या इमामेव परिणेष्यामि नर्तकीम् । नो चेत् प्राणपरित्यागं करिष्यामि हुताशने ॥१६।। ततो नीतो गृहं मित्रैः प्रतिबोध्य कथञ्चन । तत्रास्थाद् मदनावस्थाव्याकुलो मौनभागयम् ॥१७॥ पितृभ्यामथ पृष्टोऽयं लज्जमानो जगाद न । ताभ्यां पृष्टैस्तु तन्मित्रैस्तदीप्सितमकथ्यत ।।१८।। श्रुत्वा तदीहितं श्रेष्ठी मर्माहत इवाकुलः । पुत्रं रहसि कृत्वेति सानुतापमभाषत ॥१९॥ कुलीनानुचितं वस्सार्थयसे त्वं किमीदृशम् । चाण्डालकूपिका क्वापि गम्यते तृषितैरपि ? ॥२०॥ निष्ठिताः किं वणिक्पुत्र्यः पात्रं सौन्दर्यसम्पदाम् । अवाच्यामपि साधूनां यन्नटीमनुरज्यसे ? ॥२१॥ "इलातीसूनुरप्याह ताताहमिति वेम्यदः । । किं करोमि परं कामो वामो मनाति मन्मनः ।।२२।। महान्तोऽपि न विन्दन्ति कृत्याकृत्यं स्मरातुराः । जानन्तोऽपीति किं तात ! यूयं त्याजयथ त्रपाम् ?" ॥२३॥ असाध्य इति पित्राथोपेक्षितोऽयं दुरीहितः । नटेभ्यः स्वर्णतुलितामुद्वोढुं तामयाचत ॥२४॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy