SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ३०१] गुणानुमोदनाद्वारे इलातीपुत्रकथा] अथेलातीपुत्रो यथा - $$ वसन्तपुरमित्यस्ति पुरं तत्राभवत् पुरा । अग्निशर्मेति विप्रोऽस्य महिला सोमिलेति च ॥१॥ सोऽन्यदा साधुसंसर्गात् प्रबुद्धो व्रतमग्रहीत् । तत्प्रियापि तथा देहच्छायेव हि सधर्मिणी ॥२॥ पूर्वाभ्यासवशादेतावनुरागं परस्परम् । तथा जातिमदं नामुञ्चतामात्तव्रतावपि ॥३॥ ततोऽनशनमाधाय तदनालोच्य दुष्कृतम् । मृत्वा द्वावपि सौधर्मकल्पे देवौ बभूवतुः ॥४॥ इलावर्धनमित्यस्ति पुरमस्मिन्निलातले । तत्र श्रेष्ठी धनाख्योऽभूद् धारिणी चास्य गेहिनी ॥५॥ तावपुत्रावमन्येतां पुत्रार्थमुपयाचिते । पुरदेव्या इलावत्या यात्रां पुत्रस्य नाम च ॥६।। इतश्च सोऽग्निशर्मात्मा च्युत्वा सौधर्मकल्पतः । आययौ धारिणीकुक्षौ शुक्तौ स्वातिपयो यथा ॥७॥ कालेनाजायत सुतः शुभेऽह्नि शुभलक्षणः । ईलातीपुत्र इत्याख्यां पितरौ तस्य चक्रतुः ॥८॥ ततोऽङ्गैर्मृदुलैः कान्तिकन्दलैरिव चन्द्रमाः । स विश्वनयनानन्दी क्रमेण ववृधेतमाम् ॥९॥ च्युत्वा सौधर्मतस्तस्य प्रिया जातिमदादभूत् । नटस्य नन्दिनी रूपलावण्यस्सदीर्घिका ॥१०॥ तथा ननर्त सा वंशप्रान्तरङ्गतरङ्गिता । यथा कि मानवा देवदानवा अपि विस्मिताः ॥११॥ एतामिलातीपुत्रो मित्रवर्गयुतोऽन्यदा । खेचरीमिव नृत्यन्तीं चत्वरेऽथ व्यलोकयत् ।।१२।। 15 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy