________________
[३००
[विवेकमञ्जरी
पीत्वेत्थमाचार्यगवीप्रसूतोपदेशदुग्धं मधुरं सितावत् । प्रदेशिनो भूमिपतेविलिल्ये मिथ्यात्वहृत्पूरविषस्य पूरः ॥३८॥ गुरोरथो भावभिषग्वरात् परामवाप्य सम्यक्त्वमहौषधीमथ । विमुच्य नास्तिक्यमयं क्रमागतामयः क्रमेणाजनि निर्जरो नृपः ॥३९।। सूरिस्तु पूरितजगद्यशसा रसायां धर्मोद्यमार्थमखिलानि खलानि भित्त्वा । कर्मक्षयं क्रमतया च विधाय मोक्षमुत्पन्नकेवलकल: कलयाञ्चकार ॥४०॥
॥ इति श्रीकेशिकथा ॥