________________
[२९६
[विवेकमञ्जरी
उत्पन्नकेवलोऽन्येषामनुग्रहविधित्सया । मोहाहिगारुडमिव श्रलोकार्धं तदथापठत् ॥२४॥ तन्निशम्यागमेनास्य यानस्येव प्रवासिनः। . अवर्धयन् गुरुं क्षुल्ला हर्षफुल्लाननास्ततः ॥२५।।जगुर्माषतुषं पूज्याः कथं पाठस्तवागतः ? । ज्ञानेनाह स तेनोक्तः केनोचे प्रतिपातिना ॥२६।। परितः सपरीवारा सूरयो भक्तिभूरयः । नेमुस्तं निस्तुषज्ञानमथ माषतुषं मुनिम् ॥२७॥ सुराः समेत्य सद्भक्तिकलिताश्चलितासनाः । तदा केवलिनस्तस्य महिमानं वितेनिरे ॥२८॥ सैष माषतुषकेवली ततो गोभिरुज्ज्वलतराभिरिन्दुवत् । लोकसंहतितमोहतिक्रमात् कौमुदं किल विकास्य निर्वृतः ॥२९॥
॥ इति श्रीमाषतुषमुनिकथा ॥