________________
२९५]
गुणानुमोदनाद्वारे माषतुषमुनिकथा]
तस्य पूर्वकृतं कर्म ज्ञानावरणमुद्ययौ । तत्प्रभावाच्च नागच्छत् पठतोऽप्येकमक्षरम् ॥१२॥ प्रज्ञापात्रं परे शिष्या खेदयन्तस्तमूचिरे । कुरु गाढं स्वरं येनायाति पाठोऽतिदूरगः ॥१३॥ इत्यस्य खिद्यतः सूरिोधायेदमलेखयेत् । जीव ! 'मा रुष्य मा तुष्य' यतो दोषाः स्वयं कृताः ॥१४॥ घोषयन्नित्यसौ नित्यं स्वशक्तेः सारमग्रहीत् । जीव ! माषतुषेत्यादि पदमन्यद् मुमोच च ॥१५।। ततोऽसावतिघोषेण शश्वत् कौतुकिनो जनात् । लेभे माषतुषाभिख्यां 'मासाहस पतत्रिवत् ॥१६।। ज्ञानावरणखेदेनाभ्यग्रहीदित्ययं गुरोः । आचाम्लानि तदा मोत्ये पाठोऽयं मे यदैष्यति ॥१७॥ मुनेर्माषतुषस्यैवमाचाम्लानि वितन्वतः । द्वादशाब्दी व्यतीयाय सोऽस्य पाठस्त्वियाय न ॥१८॥ स्वपाठपट्टिकामग्रे मुक्त्वैकान्तस्थितोऽन्यदा । निनिन्द मूर्खताकन्दमात्मानं स महातपाः ॥१९॥ "रे जीव ! भवता पूर्वभवे ज्ञानं व्यराध्यत ।
यथा तथा तवाभ्यर्णं क्लिश्यतोऽपि समेति न ॥२०॥ द्विसंस्था ह्येकसंस्थास्ते पदानुसृतिलब्धयः। भवन्ति कवयो धन्याः स्वाराद्धं यैः श्रुतं पुरा ॥२१॥ पुरा विराधित ज्ञानं धिग् धिग्मामधमाधमम् । श्रलोकार्धमपि यस्येयद्वर्षतोऽपि समेति न ॥२२॥ इत्थं विविधमात्मानं निन्दतोऽपि च गर्हतः । क्षपकश्रेणिलीनस्य केवलज्ञानमुद्ययौ" ॥२३॥