________________
[ विवेकमञ्जरी
व्याख्या । चतुर्णामर्हत्सिद्धसाधुकेवलिप्रज्ञप्तधर्माणां शरणं चतुःशरणं, तस्य प्रतिपत्तिः स्वीकारः । प्राकृतत्वात् सप्तमी षष्ठ्यर्थे । 'सम्मं अणुमोअणा गुणाण तहा' तथा सम्यग् मनोवाक्कायकर्मभिरिति भावः, अनुमोदना अनुस्मरणम् । केषाम् ? गुणानां सत्यशौचतपस्त्यागाकिञ्चन्यब्रह्मचर्यादीनाम् । तथा ‘दुक्कडग5 रिहा' दुष्कृतानां पापानां गर्हा निन्दा सा । तथा 'भावणा य' भावना द्वादशधा सा । चः समुच्चये । एतानि चत्वार्यपि 'मणसुद्धिबीयाई' मनः शुद्धेर्बीजानि कारणानीति भाव इति ॥६॥
10
15
20
25
८]
चत्वार्येतानि प्रकरणेऽत्र द्वाराणि तत्रादौ चतुः शरणप्रतिपत्तिद्वारं गाथाचतुष्केणाह— निट्टवियअट्ठकम्मा देसियदुल्लक्खमुक्खपुरमग्गा । तेलुक्कपरमबंधू अरहंता मंगलं पढमं ॥ ७ ॥
सिद्धा य मंगलं सव्वे साहू मंगलमुत्तमं । धम्मो केवलिपन्नत्तो सव्वजीवाणं मंगलं ॥८॥
अरहंता लोगुत्तमा सिद्धा लोगुत्तमा तहा । साहू लोगुत्तमा एसो धम्मो लोगाणमुत्तमो ॥ ९ ॥
अरहंता मम सरणं सरणं सिद्धा य साहुणी सरणं । धम्मो करुणारम्मो सरणं जिणनाहनिद्दिट्ठो ॥ १०॥ [निष्ठापिताष्टकर्माणो देशितदुर्लक्षमोक्षपुरमार्गाः । त्रैलोक्यपरमबन्धवोऽर्हन्तो मङ्गलं प्रथमम् ॥ सिद्धाश्च मङ्गलं सर्वे साधवो मङ्गलमुत्तमम् । धर्मः केवलिप्रज्ञप्तः सर्वजीवानां मङ्गलम् ॥ अर्हन्तो लोकोत्तमाः सिद्धा लोकोत्तमास्तथा । साधवो लोकोत्तमा एष धर्मो लोकानामुत्तमः || अर्हन्तो मम शरणं शरणं सिद्धाश्च साधवः शरणम् । धर्मः करुणारम्यः शरणं जिननाथनिर्दिष्टः ॥ ]
सुगमाः ||७||८||९॥१०॥