________________
[७
10
चतुःशरणप्रतिपत्तिद्वारम्]
व्याख्या । तस्य विवेकस्य एकमसाधारणं विभूषणामलङ्करणम् । का ? 'मणसुद्धी' मनसः शुद्धिर्मनःशुद्धिः कृष्णनीलकापोतलेश्यात्रितयकलङ्कपङ्करहितात्मसमुत्थमतिशयश्चेतसो नैर्मल्यमिति भावः । केव ? मञ्जरीव पुष्पगुच्छ इव । कस्य ? 'रुक्खस्स' वृक्षस्य । न केवलमियं मनःशुद्धिविवेकस्य वृक्षस्येव मञ्जरी विभूषणमात्रम्, किन्तु 'तीइ समिद्धो एसो' तया मन:शुद्ध्या एष विवेकः समृद्धः 5 सन् ‘सुहफलरिद्धि' सुखानि राज्यस्वर्गापर्गसंभवानि, तान्येव फलानि तेषामृद्धिः संपत् सुखफद्धिस्तां ‘पयच्छेइ' प्रयच्छति । वृक्षस्तु मञ्जर्या समृद्धः शुद्धफलद्धि परिपाकपेशलफलस्फातिं प्रयच्छतीति गतम् ॥४॥ अथ सर्वोपदेशसंग्रहकारिकामाह - तम्हा खलु आयहियं चिंतंतेणं विवेगिणा एसा । कायव्वा मणसोही न होइ जह दुल्लहा बोही ॥५॥ [तस्मात् खल्वात्महितं चिन्तयता विवेकिनैषा ।
कर्तव्या मनःशुद्धिर्न भवति यथा दुर्लभो बोधिः ॥] व्याख्या । तस्मात् पूर्वोपदिष्टाद् हेतोः खलु निश्चितं 'आयहियं' आत्महितं स्वपथ्यम्, यद्वा, आयो ज्ञानादीनां लाभस्तस्मै हितं आयहितं 'चिंतंतेणं' चिन्तयता 15 विमृशता विवेकिना विवेको रागद्वेषादिदोषेभ्यः पृथग्भावरूपो गुणो विद्यते यस्य स विवेकी तेन ‘एसा' एषा 'कायव्वा मणसोही' मनःशुद्धिः कार्या, तप:श्रुतयमप्रायैः किमन्यैः कायदण्डनैरिति भावः । यथा किम् ? 'न होइ जह दुल्लहा बोही' यथा बोधिर्जिनधर्मावाप्तिर्न दुर्लभा भवतीति ॥५॥ अथ मनःशुद्धिकारणान्याह - चउसरणे पडिवत्ती सम्म अणुमोअणा गुणाण तहा । दुक्कडगरिहा तह भावणा य मणसुद्धिबीआई ॥६॥ [चतुःशरणस्य प्रतिपत्तिः सम्यगनुमोदना गुणानां तथा । दुष्कृतगर्दा तथा भावना मनःशुद्धिबीजानि ॥]
20