________________
5
६]
20
[इह जीवानां विवेकः परमं चक्षुरकारणो बन्धुः । यदि कथमपि प्राप्यतेऽसदृशकर्मक्षयोपशमात् ॥]
व्याख्या । इहास्मिन् जगति जीवानां विवेकः परमं चक्षुः प्रकृष्टं लोचनम्,
"पद्माश्रय इति पद्मं धिनोति कुमुदं न यदब्जबन्धुरपि । 10 अब्जवे तुल्येऽपि हि तज्ज्ञातिः कारणात्मैव ॥" [ ]
यदुक्तम् -
" एकं हि चक्षुरमलं सहजो विवेकस्तद्विद्भिरेव सह संवसतिर्द्वितीयम् । एतद्द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्याप्यमार्गचलने वद कोऽपराधः ? ॥” [] तथा अकारणो बन्धुः कारणनिरपेक्षः स्वजनः । बन्धुर्हि कारणमन्तरेण न कोऽपि सौजन्यभङ्गीमङ्गीकरोति, यदुक्तमस्माभिः सूक्तपङ्क्तौ
[ विवेकमञ्जरी
एवंविधो विवेकः 'जइ कहमवि पाविज्जइ' यदि कथमपि प्राप्यते, तदानीं 'असरिसकम्मक्खओवसमा' असदृशोऽनन्यसामान्यः कर्मणां मिथ्यात्वमोहनीयादीनामुदीर्णानां क्षयः, अनुदीर्णानां चोपशमः, क्षयेण युक्त उपशमः क्षयोपशमस्तस्मात् । विवेको हि श्रुतज्ञानभावनासमुत्थः, तच्च श्रुतज्ञानं क्षायोपशमिकभावना15 संभवम्। यदाहुः -
""भावे खओवसमिए दुवालसगं पि होइ सुयनाणं ।
केवलियनाणलंभो नन्नत्थ खए कसायाणं ॥” इति ॥३॥ [ आ.नि./ १०४]
—
-
इह निसर्गमधुरमपि वस्तु कियतापि विभूषणेन विना न चमत्करोतीति, अतस्तस्य विभूषणमा
तस्स विभूसणमेगं मणसुद्धी मंजरीव रुक्खस्स । तीइ समिद्धो एसो सुहफलरिद्धि पयच्छेइ ॥४॥
[तस्य विभूषणमेकं मनः शुद्धिर्मञ्जरीव वृक्षस्य । तया समृद्ध एष सुख(शुभ) फलद्धिं प्रयच्छति ।।]
१. भावे क्षायोपशमिके द्वादशाङ्गमपि भवति श्रुतज्ञानम् । कैवल्यज्ञानलाभो नान्यत्र क्षयात् कषायाणाम् ॥