SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 10 चतुःशरणप्रतिपत्तिद्वारम्] भगवतः सत्स्वपि वर्धमानेनेतिप्रभृतिषु नामसु 'वीरम्' इत्यतः साभिप्राया कवेरुक्तिरिति । अत्राभिधेयं विवेकमञ्जरीप्रकरणम् । संबन्धो वाच्यवाचकरूपः वाच्या उपदेशाः, वाचको ग्रन्थः । प्रयोजनं च कर्तुरिह महती कीर्तिः, श्रोतुश्च तत्त्वपरिज्ञानम्। उभयोरपि परम्पराफलं मुक्तिरिति ॥१॥ अथ प्रतिज्ञातावतारणाय परमार्थसंपत्तावौपयिकमेकं विवेकं व्यतिरेकतः प्रस्तुव- 5 नाहदुटुटुकम्मवसगा भमंति भीमे भवम्मि निस्सीमे । भट्ठविवेगपईवा जीवा न मुणंति परमत्थं ॥२॥ [दुष्टाष्टकर्मवशगा भ्रमन्ति भीमे नि:सीमे । भ्रष्टविवेकदीपा जीवा न जानन्ति परमार्थम् ॥] व्याख्या । जीवाः प्राणिनो भ्रमन्ति भ्राम्यन्ति पादावर्तवदूर्वाः कुलालचक्रवच्च तिर्यगनवस्थिता भवन्ति । क्व ? 'भवम्मि' भवे चतुर्गतिरूपे संसारे । किंविशिष्टे ? 'निस्सीमे' न विद्यते सीमा पर्यन्तो यस्यासावसीमा तस्मिन् । अत एव भीमे भयङ्करे । भ्रमणे च तत्र तेषां विशेषणेन पारतन्त्र्यमाह-'दुट्ठट्ठकम्मवसगा' । दुष्टानि निष्कृपाणि च तान्यष्टौ कर्माणि ज्ञानावरणदर्शनावरणवेदनीयमोहनीयायुष्क- 15 नामगोत्रान्तरायनामानि, तेषां वशगा आयत्ताः । न केवलं भ्राम्यन्तीति तेषां शोच्यम्, किन्तु 'न मुणंति' न जानन्तीत्यपि । कम् ? 'परमत्थं' परमः पूज्यः शाश्वतानन्दमयमुक्तिपुरीपथरूपोऽर्थः परमार्थस्तम् । तदज्ञाने च तेषां विशेषणेन कारणमाह'भट्ठविवेगपईवा' भ्रष्टो विवेको रागद्वेषमोहादिदोषेभ्यः पृथग्भावरूपो निरन्तरान्तरतिमिरभरसंहरणप्रवणः प्रदीपो येषां ते तथा । भ्रंशश्चेह विश्लेषः । स च द्विविधः- 20 असंपत्तौ प्रथमः, द्वितीयश्च कषायविषयविनिर्मितविहस्ततया विश्रस्तत्वलक्षण इति ॥२॥ अधुना विवेकस्यैवान्वयेन माहात्म्यमुन्मीलयंस्तस्यैव हेतुमाह - इह जीवाण विवेगो परमं चक्खू अकारणो बंधू । जइ कहमवि पाविज्जइ असरिसकम्मक्खओवसमा ॥३॥ 25
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy