________________
४
।
[विवेकमञ्जरी इह हि महितगुणमहिमकुमुदहिमकरस्य मकरकेतुबाणवित्रस्तसमस्तनजपरित्राणवज्रपञ्जरस्य गूर्जरवसुन्धरावदनमण्डलमण्डली नगरमण्डनश्रीमहावीरचैत्यप्रतिष्ठाकृतः सुकृतचरितचमत्कृतदेवेन्द्रस्य श्रीदेवेन्द्रगुरुस्वहस्तस्वपदविनिवेशितस्य भुवनभद्रङ्करस्य श्रीभद्रेश्वरसूरिगुरो पट्टनभस्तलालङ्करणकिरणमालिना प्रतिवादिदैत्य5 दमनसौरिणा श्रीमदभयदेवसूरिणा समुपदिष्टसकलसर्वज्ञसिद्धान्तसारः संसारवैराग्यरसप्रसरपुष्टचेताः शिष्टसमयसरसिजवनीविकाशनैकरविश्रीमदासडकविः कविसभाशृङ्गार इत्यपरनामधेयः श्रेयःप्रवृत्तिसुभगम्भावुकभविकजनचक्रप्रमोदसंपादनच्छेकरुचिविवेकमञ्जरीप्रकरणकरणमभीष्टदेवतानमस्कारपुरस्सरं प्रतिजानीते, यथा
सिद्धिपुरसत्थवाहं वीरं नमिऊण चरिमजिणनाहं । 10 सवणसुहारससरिअं वुच्छामि विवेगमंजरिअं ॥१॥
[सिद्धिपुरसार्थवाहें वीरं नत्वा चरमजिननाथम् ।
श्रवणसुधारससरितं वक्ष्यामि विवेकमञ्जरीम् ॥] व्याख्या । अहं विवेकमञ्जरी वक्ष्यामीति संबन्धः । किंविशिष्टाम् ? 'सवण
सहारससरिअं' श्रवणयोः कर्णयोर्विषयवार्ताविषमविषसमुच्छलितातुच्छमूर्छा15 विच्छेदकत्वात् सुधारससरिद् अमृतनदी ताम् । किं कृत्वा ? 'नमिऊण' नत्वा ।
कम् ? 'चरमजिणनाहं' चरमश्चासौ जिननाथश्च चरमजिननाथश्चतुर्विंशतितमस्तीर्थनाथस्तम् । किंविशिष्टम् ? 'सिद्धिपुरसत्थवाहं' सिद्धिरेव पुरं मुक्तिरेव नगरं तत्र सार्थो भव्यसत्त्वसंघातस्तं वाहयति प्रापयतीति सिद्धिपुरसार्थवाहस्तम् ।
भगवतः सार्थवाहत्वे निरुपणमिदमतिविशदमागमानुगामि, यदाहुः श्रीभद्रबाहुस्वा20 मिपादाः
"पाविंति निव्वुइपुरं जिणोवइद्वेण चेव मग्गेण ।
अडवीइ देसियत्तं एवं नेयं जिणिंदाणं ॥" [आ.नि./९०६] सार्थवाहत्वे चास्य सामर्थ्य नाम्नैव प्रकाशयति । किनामानम् ? वीरम् 'ईर गतौ कम्पने च' इत्यनेन विपूर्वेण विशेषेण ईरयति कम्पयति भावशत्रूनिति वीरस्तम् । १. प्राप्नुवन्ति निर्वृतिपुरं जिनोपदिष्टेनैव मार्गेण । अटव्यां देशिकत्वमेव ज्ञेयं जिनेन्द्राणाम् ।।