SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ श्रीबालचन्द्रसूरिविरचितवृत्तिसमुपेता श्रीआसडकविकृता ॥ विवेकमञ्जरी ॥ 10 श्रीनाभिनन्दनविभोर्वदनं मुदेऽस्तु श्रीशारदासदनमक्षिगवाक्षरम्यम् । स्कन्धाचलोपरिकलश्रुतिदोलयोर्यत्पर्यन्तयोरुपवनीयति कुन्तलाली ॥१॥ देवाधिदैवतमतीव ततानि शान्तिः श्रेयांसि वो दिशतु संहृतविश्वतान्तिः । यत्पादयोर्नखरुचः प्रणतेषु शान्तितोयच्छटात्वमरुणाच्छवयः प्रयान्ति ॥२॥ मर्यादयापि कलितः प्रियनिम्नगोऽसौ कुग्राहवानतिगभीरपयोऽन्वितोऽपि । हित्वा समुद्रमिति कम्बुरगाद् यदकं स श्रीजिनो वृजिनमस्यतु शङ्खलक्ष्मा ॥३॥ निर्मेघमेघपथमेचकदेहधामा वामासुतः स भवताद् भवतां विभूत्यै । यन्मौलिसीम्नि ऋषिमण्डलसप्तसप्तेः सप्तापि सप्तय इवाहिफणाः स्फुरन्ति ॥४॥ ते वः शिवश्रियमपश्चिमतीर्थनाथपादारविन्दनखचन्द्रमसो दिशन्तु । कामं कलङ्कविकलाः सकलाङ्कसिंहभीप्रोषितोदरमृगा इव ये विभान्ति ॥५॥ नम्रासुरत्रिदशकोटिकिरीटकोटिशाणानिशातपदपद्मनखेन्दुकान्ताः । कान्तानि वः शिवसुखानि दिशन्तु शश्वदन्येऽपि तीर्थपतयोऽजितनाथमुख्याः ॥६॥ मोहान्धकारधिक्कारदीपिका मुक्तिवर्मनि । विवेकमञ्जरीवृत्तिरियं निवर्त्यते मया ॥७॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy