________________
5
10
15
20
[ २८४
अथाह नृपतिः क्रुद्धो धनदत्तस्य मन्दिरे । मुच्यन्तां पत्तयः शीघ्रं कारायां क्रियतामयम् ॥७३॥ स च कुण्डलचौरस्तु तत्र देवकुले धृतः । प्रातः पौरसमक्षं तं महादण्डेन दण्डयेः ॥ ७४ ॥
स्वामिन् ! प्रमाणमादेश इत्युक्त्वा तत्क्षणादयम् । पत्तीन् गृहे विमुच्यास्य धनदत्तमधारयत् ॥७५॥। तद्वृत्तान्तमजानाना प्रातर्नागवसुः पुनः । सहस्राम्रवणे चैत्ये ययौ नन्तुं जिनाधिपम् ॥७६॥ पूजयन्ती जिनं यावत्तत्रास्ते सा सखीवृता । राजतन्त्रयुतस्तावद्वसुदत्तः समाययौ ॥७७॥ अरे ! गृह्णीत बध्नीत राज्ञः कुण्डलतस्करम् । मण्डपस्थो जगर्जेति वसुदत्तो मृगेन्द्रवत् ॥७८॥ नागदत्तः पुनस्तस्मिन्नपि कारुण्यपुण्यधीः । दध्यौ प्रकटितो हा ! धिग्वराकोऽयं मरिष्यति ॥७९॥ तदिदं प्राकृतं किञ्चिद् दुष्कृतं सहतां वपुः । उपेक्षैवास्य युज्येत कृतघ्नस्य विनाशिनः ॥८०॥ वसुदत्तगिरा दण्डपाशिकैर्यष्टिमुष्टिभिः । ताडयित्वा दृढं नागदत्तोऽबध्यत् धिग् विधिम् ॥८१॥ ततो नागवसुर्दृष्ट्वा नागदत्तं तथापदि । हा ! हतास्मीति जल्पन्ती मूच्छिता न्यपतद् भुवि ॥८२॥ सपूत्कारं सखीभिस्तु चन्दनव्यजनादिभिः । हृतमूर्छा व्यलापीत् सा रुदती सुदती भृशम् ॥८३॥ हा सर्वज्ञ ! मदीयं किं दुष्कर्मोदयमागतम् । येनायं साधुमूर्धन्योऽभीष्टो मे कष्टभागभूत् ? ॥८४॥
[ विवेकमञ्जरी