________________
गुणानुमोदनाद्वारे नागदत्तकथा ]
वसुदत्तश्च दध्यौ किं नागदत्तोऽयमध्वनः ।
एतस्माद् ववले शीघं तत्र पश्यामि कारणम् ॥ ६१॥ ध्यात्वेति दुष्टधीः सोऽयमगमद् यावदग्रतः । तावत्पतितमद्राक्षीत् कुण्डलं रविबिम्बवत् ॥६२॥ दृष्ट्वा तञ्चिन्तयामास हर्षलोत्कर्षमानसः । छलमेतदहो ! लब्धं नागदत्तं निशुम्भितुम् ॥६३॥ ववले कुण्डलं दृष्ट्वा पुरः कुण्डलिनं यथा । तथापि पातयाम्यद्य साधुतामस्य मूर्धनि ॥६४॥ चिन्तयित्वेदमादाय कुण्डलं त्वरितक्रमः । सहस्त्राम्रवणं सोऽपि गत्वा चैत्यान्तराविशत् ॥६५॥ कायोत्सर्गस्थितं तत्र नागदत्तं चलानके । स ददर्श कुधीर्दर्श इव राहुर्दिवाकरम् ॥६६॥ गुणेन प्रोतयित्वाथ कुण्डलं कण्ठलम्बितम् । विधाय नागदत्तस्य पाभर्वे पत्तीन् न्ययुङ्क्त सः ॥६७॥ सरावेणेव शुशुभे तेनासौ कण्ठलम्बिना । मार्गान्निव जगन्नाथात् कल्याणं निजमुक्तये ॥६८॥ गत्वाथ मायिकः पृथ्वीनायकाय शशंस सः । देव ! किं क्रियते तत्र यंत्र स्यादमृतं विषम् ? ॥६९॥ य एव नगरस्तम्भो धनदत्तो महाधनः । तस्यैव सूनुना नागदत्तेनाऽहारि कुण्डलम् ॥७०॥ सबाह्याभ्यन्तरं देवादेशतः पश्यता पुरम् । स्थगयन् कुण्डलं दृष्टः स माकन्दवने मया ॥७१॥ ततोऽसौ धारितस्तत्र चैत्य एवास्ति पत्तिभिः । यदादिशति देवोऽतः परं तत्क्रियते द्रुतम् ॥७२॥
२८३ ]
5
10
15
20