SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ [२८० [विवेकमञ्जरी अथाह नागदत्तस्तान् वृथायं विस्तरो गिराम् । प्रास्तूयत भवद्भिर्मे मनोभावबहिर्मुखैः ॥२५॥ मनागपि न रागोऽस्यां कारणं प्रच्छने त्वदः । अस्या जिनेशपूजायां कौशले कौतुकं मम ॥२६॥ सवयोभिः समं त्वेतैरालापानिति कल्पयन् । चैत्याद् निर्गत्य गतवान् नागदत्तो निजं गृहम् ॥२७॥ इतश्च सापि सहिता सखीभिः स्वनिकेतनम् । तं ध्यायन्ती यथौ नागवसुर्वसुमिव श्रियाः ॥२८॥ तत्र नाशेत नाभुङ्क्त नापिबद् नालपच्च सा । भाषितापि सखीभिर्नादत्त हुक्कारमप्यहो ! ॥२९॥ मात्रा मत्वेति सातकं सा सबाष्पमथोदिता । म्रियेऽहं शंस हा वत्से ! देहे किं तव बाधते ? ॥३०॥ अथ नागवसुः प्राह मातः ! किमपि वेद्भि न । परं विजृम्भते बाढं देहे दाहज्वरो मम ॥३१॥ ततोऽसो परिहासेन सखीभिरिति भाषिता । किं न दाहज्वरः प्रातः पीत्वा सलवणं सखि ! ॥३२॥ स्मित्वा मन्दाक्षमन्दाक्षा दध्यौ नागवसुस्ततः । हन्त दक्षाभिरेताभिआताहं किं करोमि तत् ? ॥३३॥ ततो रहसि पृष्ठाभ्यस्तत्सखीम्यस्तदाशयम् । मत्वा नागश्रियाऽशंसि प्रियमित्राय तत्तथा ॥३४॥ प्रियमित्रस्ततोऽवादीत् तामथ प्रीतिमानिति । स्थाने तु रागमाधत्त प्रिये ! पुत्रीयमावयोः ॥३५॥ नागश्रीस्त्वरयामास तं हर्षेण वदन्त्यदः । त्वरस्व प्रिय ! मत्पुत्र्या नागदत्तं पतीकुरु ॥३६।।
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy