SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २८१] गुणानुमोदनाद्वारे नागदत्तकथा] तथेति प्रियमित्रोऽपि गतवांस्तन्निकेतनम् । धनदत्तेन पृष्टश्च स्मितपूर्वमिदं जगौ ॥३७॥ श्रेष्ठिन् ! यानीह रत्नानि स्थलेषु ज जलेषु च । उत्पद्यन्ते पदं तेषां भवतो भवनं किल ॥३८॥ तन्नागवसुनामास्ति सुतारत्नं गृहे मम । तद् दातुं नागदत्ताय प्राप्तोऽहं तव सूनवे ॥३९॥ अथाह धनदत्तोऽपि युक्तमुक्तं त्वया सखे ! । परं मे विषयोद्विग्नः स्वभावादेव नन्दनः ॥४०॥ प्रियमित्रस्ततोऽवादीद् यद्यप्येवं तथापि मे । सा सुता नागदत्तैकमानसा नान्यमिच्छति ॥४१॥ धनदेवोऽभ्यधाद् भद्र ! यद्येवं तन्निजं सुतम् । बोधयित्वा तदुक्तं ते कथयिष्यामि निर्णयम् ॥४२॥ इत्युदीर्य विसृष्टेऽस्मिस्तदर्थं प्रार्थितः स्वयम् । श्रेष्ठिना नागदत्तो न पाणिग्रहममन्यत ॥४३।। इतश्चासीत् तलारत्ताधिकारी तत्र पत्तने । वसुदत्त इति ख्यातो जितशत्रुनृपप्रियः ॥४४॥ दृष्टा नागवसुस्तेन वातायनतले तदा । आगत्य गृहमुद्वोढुं प्रियमित्रादयाचत ॥४५॥ तेनोच नागदत्ताय धनदत्तात्मजन्मने । दत्तेयं किं प्रदीयन्ते क्वापि कन्याः पुनः पुनः ? ॥४६॥ वसुदत्तः पुनः प्राह मोहात कन्यां प्रयच्छ मे। द्रव्यं समीहसे यावत् तावद् दास्यामि ते ध्रुवम् ॥४७॥ प्रियमित्रो हसन्नाह कथं कन्याट्टमस्ति मे । द्रव्यैविक्रीयमाणां ते येन यच्छामि कन्यकाम् ॥४८॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy