SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे नागदत्तकथा ] इत्थं विषयवैमुख्यं ज्ञात्वाऽस्य पितरावथ । दुर्दान्तमित्रगोष्ठीषु निरतं कुरुतः स्म तम् ॥१३॥ अनिच्छन्नप्यसौ चित्ते मित्रणामुपरोधत: । कूपारामविहारेषु विजहार दिवानिशम् ॥१४॥ सहस्त्राम्रवणोद्यानं वयस्यैरयमन्यदा । नीतः कन्दर्पशिबिरमिवाम्रस्तबकाञ्चितम् ॥१५॥ क्रीडावाप्यां कृतस्नानोऽवचित्य कुसुमान्यथ । विवश तत्र तीर्थेशभवनं सह तैरथ ||१६|| कयाचित् कन्यया तत्र कृतां पूर्वप्रविष्टया । जिनपूजामथालोक्य नागदत्तो विसिष्यमिये ॥ १७॥ नागदत्तं च सा नागकुमारमिव रूपतः । स्वभावं स्वसखीभ्योऽपि गोपयन्ती निरैक्षत ॥१८॥ तस्य रूपसुधाम्मोधेर्नीरङ्गीवसनान्तरम् । लावण्याम्भः पपौ नेत्राञ्जलिभिः सा विवेकिनी ॥१९॥ अथ तत्रानुरक्ता सा लज्जमाना सखीवृता । निर्ययौ जिनगेहात् तं निध्यायन्ती मुहुर्मुहुः ||२०|| नागदत्तस्तु तीर्थेशं पूजयित्वाऽभिवन्द्य च । वयस्यानाह केयं भोः ! कन्या कस्या च नन्दनी ? ॥२१॥ तैरूचे प्रियमित्रस्य सार्थवाहस्य नन्दनी । जाता नागश्रिया नागवसुनाम्नी कुमारिका ॥२२॥ इयं विश्ववधूसृष्टिशलाका विश्वकर्मणः । षष्ठमस्त्रं च पञ्चेषोर्जेतुं कमपि दुर्जयम् ॥२३॥ अनुरूपवराप्राप्तिर्दोषोऽस्यामेक एव हि । त्वया विलोकितायां तु सोऽपि सम्प्रति मार्जितः ||२४|| १. ग. घ. वाग्रस्थलमालितम् । २७९] 5 10 15 200
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy