________________
[२७६
. [विवेकमञ्जरी
स्फारीकृत्य पयःकुल्यां मृत्पालीबन्धतोऽभितः । चिक्रीड स चिरं तत्र बेडीकृत्य पतद्ग्रहम् ॥२४॥ दृष्ट्वेति संयमाऽऽबाधां कुर्वाणमतिमुक्तकम् । --- पप्रच्छुरुत्सुका वीरमृषयोऽस्मिन् कृपालवः ॥२५॥ प्रसीद सुकृतश्रीद ! निवेदय महोदय ! । कुत्र याता भवे मुक्तिं बालर्षिरतिमुक्तकः ? ॥२६॥ स्वाम्युवाच भवेऽत्रैव सेत्स्यत्येष महामनाः । कुर्वीध्वं बालमित्येनं गर्हितं मा स्म कहिचित् ।।२७।। स्वाम्याज्ञातमिति श्रुत्वा स्थविरा यावता स्थिताः । आकारसंवृतिं कृत्वा तावत्प्रापातिमुक्तकः ॥२८॥ प्रतिश्रयान्तरविशत् कृत्वा नैषेधिकीमयम् । गुर्वनुज्ञामयाचिष्ट नत्वेर्यापथिकीविधौ ॥२९॥ तत्प्रमादानधिक्षेपतयैव गुरवोऽपि तम् । तदाऽनुज्ञापयामासुरीर्यापथप्रतिक्रमम् ॥३०॥ ततोऽयमिच्छामीत्युक्त्वा प्रतिक्रामन् समाहितः । 'दगमट्टी' पदस्यार्थं स्मरन् संवेगमित्यगात् ॥३१॥ अहो 'दग' इहाप्कायो ये तल्लेशेऽपि जन्तवः । चेत्ते सर्षपमानाः स्युर्जम्बूद्वीपे न मान्ति तत् ॥३२॥ 'मट्टी' च मृत्तिका ज्ञेया ये तल्लेशेऽपि जन्तवः । चेत्ते पारापताङ्गाः स्युर्जम्बूद्वीपे न मान्ति तत् ॥३३।। तद् मया चिन्मयालोकविकलेन दुरात्मना । विराद्धास्तच्चये जीवाः सामायिकविरोधिना ॥३४|| अनालोच्यात्मनो वीक्षामनालोच्य जिनागमम् । अनालोच्य गुरोः शिक्षामनालोच्य तु दुर्गतिम् ॥३५॥