________________
गुणानुमोदनाद्वारेऽतिमुक्तककथा ]
२७५]
ततो विसृष्टस्तेन श्रीगौतमोऽभ्येत्य भक्तिभाक् । उपासामासिवान् वीरस्वामिनं भवनामिनम् ॥१२॥ अथातिमुक्तकः प्रीत्या मातापितृसमन्वितः । अभ्येत्य भगवत्पादानवन्दत समाहितः ॥१३॥ भगवानपि संसारसुखधिक्कारदायिनीम् । चक्रे पीयूषदेशीयां देशनां वशिनां वरः ॥१४॥ अथ प्रभुं प्रणम्योचे राजपुत्रोऽतिमुक्तकः । आदित्सामि प्रभो ! दीक्षां वीक्ष्यातिविरसं भवम् ॥१५॥ मा कृथाः प्रतिबन्धत्वमित्यूचे भगवानपि । सोऽपि गत्वा स्वमावासमुवाच पितराविति ॥१६॥ पितरौ ! दुस्तरादस्माद् बिभेमि भवसागरात् । तन्मे दापयितुं दीक्षामङ्गिनी यूयमर्हथ ॥१७॥ ततस्तौ सास्त्रमूचाते पुत्र ! त्वमसि कोमलः । व्रतभारं कथं वोढा सोढासि च परीषहान् ? ॥१८॥ राजपुत्रोऽभ्यधादात्मवशो धर्मालसो जनः । सङ्कटेऽन्यवशः सर्वं सोढा वामत्वमस्य धिक् ॥१९॥ तद् मातृहृदयं कृत्वा नापथ्यं भावरोगिणः । मम वाच्यं किमप्युच्चैः पितरौ ! वां वल्लभोऽस्मि चेत् ॥२०॥ इत्युक्तियुक्तिभिः कृत्वा पितरौ स निरुत्तरौ । जग्राह साग्रहो दीक्षां श्रीवीरचरणान्तिके ॥२१॥ स्वामिना दीक्षयित्वाऽसौ स्थविरेभ्यः समर्पितः । क्रमेणाधीयमानश्चैकादशाङ्गधरोऽभवत् ।।२२।। वर्षाकालेऽन्यदा वृष्टौ जातायां बाल्यकौतुकात् । पतद्ग्रहं समादाय ययावेष बहिर्भुवि ॥२३।।
15