SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 [ २७२ तथेति प्रतिपेदाना दत्तदानार्तिषु व्रतम् । पुष्पचूलाददे भूपकृतनिष्क्रमणोत्सवा ॥७३॥ सा शिक्षामाददे सर्वां गुर्वादेशपथानुगा । तपश्चचार चातीव तीव्रकर्मारिकृन्तनम् ॥७४॥ विज्ञाय भाविदुर्भिक्षं प्रैषि देशान्तरे गणः । जङ्घाबलपरिक्षीणैस्तस्थे चात्रैव सूरिभिः ॥७५॥ आनीयान्तःपुराद्भक्तपानादि प्रतिवासरम् । गुरवे पुष्पचूलाऽदात् पित्रे पुत्रीव भक्तिभाक् ॥७६॥ अनन्यमनसस्तस्या गुरूणां पर्युपासनात् । भावयन्त्याः स्वमुत्पेदे केवलज्ञानमन्यदा ॥७७॥ पुरा ह्यभूत् प्रयुञ्जानः कृत्यं यो यस्य तस्य सः । केवल्यपि च कुर्वीत स यावद् वेत्ति तं न हि ॥७८॥ पुष्पचूलाऽथ विज्ञाय केवलज्ञानचक्षुषा । सर्वं संपादयाञ्चक्रे सूरिर्यद् यदचिन्तयत् ॥७८॥ सूरिः पप्रच्छ तां साध्वीं वत्से ! वेत्सि कथं ननु । ममाभिप्रायमेवं यत् संपादयसि चिन्तितम् ? ॥८०॥ उवाच पुष्पचूलापि प्रकृतिं वेद्मि वः खलु । यो यस्य शश्वदासन्नः प्रकृतिज्ञो हि तस्य सः ॥ ८१ ॥ सार्यिका पिण्डमानिन्येऽन्यदा वर्षति वारिदे । सूरिणोचे श्रुतज्ञाऽसि वृष्टौ किमिदमर्हति ? ॥८२॥ साऽब्रवीद् यत्र मार्गेऽभूदप्कायो ऽचित्त एव हि । आयासिषमहं तेन प्रायश्चित्तागमोऽत्र न ॥ ८३ ॥ अचित्ताप्कायमध्वानं कथं वेत्सीति सूरिणा । उदिते पुष्पचूलाऽऽख्यदुत्पन्नं मेऽस्ति केवलम् ॥८४॥ [ विवेकमञ्जरी
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy