________________
२७१]
गुणानुमोदनाद्वारेऽन्निकापुत्रकथा]
पुष्पचूलाथ पप्रच्छ भगवन् ! केन कर्मणा । ईदृशान् नरकान् घोरान् प्राप्नुवन्ति शरीरिणः ? ॥६१॥ आख्याति स्मान्निकापुत्रो महारम्भपरिग्रहैः । मांसाशनैर्गुरुप्रत्यनीकत्वेनाङ्गिनां वधैः ॥६२॥ ततश्च जननीजीवदेवस्तस्यास्तदादि तु । स्वप्ने पूर्वमिव प्राज्यसुखान् स्वर्गानदर्शयत् ॥६३॥ प्रबुद्धा कथयामास सा पत्ये स्वर्गदर्शनम् । सोऽथ पाखण्डिनोऽपृच्छत् ब्रूथ किं स्वर्गलक्षणम् ? ॥६४॥ तेष्वेके प्रोचिरे स्वर्गस्वरूपं प्रियसङ्गमः । पुष्पचूला न तत् स्वप्नदृष्टस्वर्गाऽन्वमन्यत ॥६५॥ राज्ञा पृष्टोऽन्निकापुत्रः स्वर्गान् द्वादश तत्तथा । नव ग्रैवेयकांश्चाप्यनुत्तरानाख्यदुत्तरान् ॥६६॥ . प्रमाणवचनं जैनमिति निश्चित्य राज्ञथ । गुरुं पप्रच्छ भगवन् ! स्वर्गाप्तिः केन कर्मणा ? ॥६७॥ सूरिराह जिने देवे सुसाधौ च गुरौ मतिः । यस्य तस्याङ्गिनः स्वर्गपदवी न दवीयसी ॥१८॥ पुनश्चारित्रधर्मे च गुरुणा कथिते सति । सा राज्ञी लघुकर्मत्वाद्भवोद्विग्नैवमभ्यधात् ॥६९॥ भगवन् ! पतिमापृच्छय पादमूले तवैव हि । उपादास्ये परिव्रज्यां मर्त्यजन्मतरोः फलम् ॥७०॥ इत्युक्त्वा पुष्पचूलाथ गुरुन्नत्वा विसृज्य च । आपप्रच्छ महीनाथं सोऽपि तामिदमूचिवान् ॥७१॥ तदा त्वामनुमन्येऽहं व्रताय वरवणिनि ! । ममैवौकसि चेद्भिक्षामादत्से व्रतिनी सती ॥७२॥