SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 [ २७० क्रमेण पुष्पकेतौ तु कथाशेषत्वमीयुषि । पुष्पचूलोऽभवद् भूपः पुष्पचूला महिष्यभूत् ॥ ४९ ॥ अकृत्यं वारयन्ती तत्तदापत्यापमनिता । राज्ञी पुष्पवती लात्वा व्रतं तप्त्वा ययौ दिवि ॥५०॥ स देवोऽवधिनाऽपश्यत्तामकृत्यनियोजिताम् । निजां दुहितरं स्नेहात् पुनरेवमचिन्तयत् ॥५१॥ मम प्राच्यभवे प्राणप्रियेयं दुहिताऽभवत् । करोमि तत्तथा घोरे नरके न पतेद्यथा ॥५२॥ इति स्वप्नान्तरे तस्या नरकानंतिदारुणान् । दर्शयामास निर्दीर्यमाणसांराविनारकान् ॥५३॥ वर्तिका श्येनमुक्तेव मृगीव दवनिर्गता । सा दृष्टनारका भीत्या प्रबुद्धापि व्यकम्पत ॥५४॥ तत्तथाऽकथयद्भीतभीता सा पत्युरेष तु । शिवेच्छुः पुष्पचूलायाः कारयामास शान्तिकम् ॥५५॥ स तु पुष्पवतीजीवदेवस्तद्धितकाम्यया । तादृशानेव नरकाननुरात्रमदर्शयत् ॥५६॥ अथाख्यन् नरकान् राज्ञे पृष्टाः पाखण्डिनो यथा । तथामन्यत राज्ञी न स्वप्नदृष्टविलक्षणान् ॥५७॥ आयच्चान्निकापुत्रं राजाऽपृच्छत्तदेव हि । नरकान् स तथैवाख्यद् दृष्टाः स्वप्ने यथा तया ॥५८॥ राज्ञप्युवाच भगवन् ! किं भवद्भिरपीदृशः । मयेव वीक्षितः स्वप्नो वित्थेथं कथमन्यथा ? ॥ ५९ ॥ सूरिः प्रोवाच हे वत्से ! विनापि स्वप्नदर्शनम् । संसारे नास्ति तद् यद् न विज्ञायेत जिनागमात् ॥६०॥ [ विवेकमञ्जरी
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy