________________
२६९]
गुणानुमोदनाद्वारेऽन्निकापुत्रकथा]
स क्रमेण परिक्रान्तचारित्रज्ञानदर्शनः । बभूव गणभृद् गच्छकमलाकरभास्करः ॥३७॥ स सूरिः सपरीवारो वृद्धत्वे विहरन् ययौ । नगरं पुष्पभद्राख्यं गङ्गातटविभूषणम् ॥३८॥ तत्राभूद् भूपतिः पुष्पकेतुस्तस्य तु वल्लभा । बकुलस्येव वासन्ती पुष्पवत्यभिधानतः ॥३९॥ अभूतां युग्मजौ तस्याः पुत्रः पुत्री च सुन्दरौ । अभूत्तयोः पुष्पचूलः पुष्पचूलेति चाभिधा ॥४०॥ वर्धमानौ सहैवैतौ रममाणौ सहैव तौ । प्रीतिमन्तौ मिथोऽभूतां मरालपृथुकाविव ॥४१॥ "राजा दध्यौ च यद्येतौ दारेकौ स्नेहलौ मिथः । वियुज्येते तदा नूनं मनागपि न जीवतः ॥४२॥ वियोगं सोढुमहमप्यनलम्भूष्णुरेतयोः । मिथस्तदेतयोरेव युक्तमुद्वाहमङ्गलम् ॥४३॥ मित्राणि मन्त्रिणः पौरानथ पप्रच्छ पार्थिवः ।
अन्तःपुरे यदुत्पन्नं रत्नं तस्य क ईश्वरः ?" ॥४४॥ "ते प्रोचुर्देशमध्येऽपि रत्नं किमपि यद्भवेत् । तस्यापीशो महीनाथः का कथाऽन्तःपुरे पुनः ? ॥४५॥ यद् यदुत्पद्यते रत्नं स्वदेशे तद्विशाम्पतिः । यथाकामं नियुञ्जीत बाधकस्तस्य कोऽपि न" ॥४६।। तेषां भावानभिज्ञानामालम्ब्याथ वचो नृपः । युक्ते फले इवापत्ये ते मिथः पर्यणाययत् ॥४७॥ राज्ञी पुष्पवती तस्य श्राविकाऽभूत्तया नृपः । अवार्यत तथा कुर्वंस्तामवाजीगणत् पुनः ॥४८॥
15