SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ [२६८ [विवेकमञ्जरी स्वकुटुम्बवियोगेन क्लिश्यते तव भावुकः । श्वश्रू-श्वशुरपादानामहमुत्कण्ठिताऽस्मि च ॥२५॥ अनुमन्यस्व मे नातं स्वस्थानगमनं प्रति । तमन्वेष्याम्यहमपि तस्याऽऽयत्ता न ते यतः ॥२६॥ स्थास्यत्येवैष वाग्बद्धः प्रणन्तुं श्वशुरौ त्वहम् । एकाकिन्यपि यास्यामि किं कार्यं तदनेन ते ? ॥२७॥ इति साग्रहमुक्तस्तु जयसिंहो व्यसर्जयत् । तावुदग्मथुरां प्रत्यागन्तुं लग्नौ च तौ द्रुतम् ।।२८॥ अन्निकाऽभूत्तदा गुर्वी नेदीयःप्रसवापि च । इति मार्गेऽपि साऽसूत सुतं लक्षणविश्रुतम् ॥२९॥ नादत्तामस्य तौ नाम पितरौ तत्करिष्यतः । अन्निकापुत्र इत्येनं तज्जनस्तूदलापयत् ॥३०॥ उत्तरामन्निकानाथो जगाम मथुरामथ । तौ ववन्दे च पितरौ ताभ्यां मूर्धन्यचुम्बि च ॥३१॥ देशान्तरोपार्जनेयं ममोपादीयतामिति । ब्रुवाणः सोऽर्भकं पित्रोरर्पयामास हृष्टयोः ॥३२॥ इयं वधूर्वः पुत्रोऽयं ममैतत्कुक्षिसंभवः । इत्याचख्यौ च सम्बन्धं भक्तिबन्धुरया गिरा ॥३३॥ स्थविरौ चक्रतुस्तस्य शिशोः सन्धीरणभिधाम् । अन्निकापुत्र इति तु लोकनाम्ना स पप्रथे ॥३४॥ वर्धमानोऽन्निकासूनुः स्पर्धमानो नवेन्दुना । चतुर्वर्गार्जनोर्जस्वि प्रपेदे मध्यमं वयः ॥३५॥ भोगान् रोगानिवापास्य यौवनेऽपि स धीधनः । जयसिंहगुरोः पाशर्वे परिव्रज्यामुपाददे ॥३६।।
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy