________________
२६७]
गुणानुमोदनाद्वारेऽन्निकापुत्रकथा]
एष संभाव्यते यास्यन्नद्य श्वो वापि सुन्दरः । किं न श्रुतं हि यद् ग्रामा वसन्ति प्राघुणैः किमु ? ॥१३॥ प्राणप्रिया स्वसेयं मे जङ्गमा श्रीरिवौकसि । तदिमां सम्प्रहेष्यामि न भर्तुरपि वेश्मनि ॥१४॥ असौ कर्तुं क्षमोऽपत्यजन्मावधि यदीदृशम् । तदुद्वहतु मे जामि देवदत्तोऽन्निकामिमाम् ॥१५॥ देवदत्तानुमत्यैते ओमिति प्रतिपेदिरे । देवदत्तोऽपि तां कन्यां परिणिन्ये शुभेऽहनि ॥१६॥ तत्र तस्यान्निकाप्रेमपाशबद्धस्य तस्थुषः । प्रैष्युदग्मथुरास्थाभ्यां पितृभ्यां लेख ईदृशः ॥१७॥ "आवामन्धौ जराजीी जीवन्तौ यदि वीक्षसे । तदुद्वापय नौ नेत्रे रुदतोरिह पुत्रक ! ॥१८॥ पितृवात्सल्यवद् मूर्तं स तं लेखमवाचयत् । पथिश्रान्तोऽयमित्यश्रुसलिलैः स्नपयन्निव ॥१९॥ अचिन्तयच्च धिग् धिग्मां पितरौ विस्मृतौ हि मे । अहं विषयलग्नोऽस्मि पित्रोः पुनरियं दशा ॥२०॥ किं करोमि कथं यामि पतितोऽहं महापदि ? । स्वजिह्वयाथ बद्धस्य गतिः का मे भविष्यति ?" ॥२१॥ अन्निका तत्कराल्लेखमादाय तमवाचयत् । तदुःखकारणं सद्यो विवेद जगाद च ॥२२॥ सर्वथा मा कृथाः खेदमार्यपुत्राचिरादहम् । भ्रातरं बोधयिष्यामि करिष्यामि त्वदीप्सितम् ॥२३॥ गत्वा भ्रातरमूचे च नितरां कुपितेव सा । विवेकिन् ! किमिदं भ्रातर्भवतानुष्ठितं वद ॥२४॥