SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ [२६६ [विवेकमञ्जरी 10 अथान्निकापुत्रकथा यथा - उभे स्तो मथुरानाम्नी नगर्यो दक्षिणोत्तरे । मुख्याञ्जनेन बिभ्राणो श्रियं क्षोणीदृशोरिव ॥१॥ मथुरायामुदीच्यां च देवदत्तोऽभवद् वणिक् । दक्षिणस्यां धनावाप्त्यै मथुरायामियाय सः ॥२॥ वणिजा जयसिंहेन तत्रासीत्तस्य सौहृदम् । स्वसाऽऽसीज्जयसिंहस्य चान्निका नाम कन्यका ॥६॥ जयसिंहोऽन्यदा जामिमन्निकामादिशद् निजाम् । समित्रोऽप्यद्य भोक्ष्येऽहं रम्यां रसवती कुरु ॥४॥ इत्युक्त्वा जयसिंहेन देवदत्तो निमन्त्रितः । आगच्च तद्गृहे भोक्तुं तौ द्वावपि निषेदतुः ॥५॥ भक्ष्यभेदानथो मिष्टानष्टादश महारसान् । द्वयोरप्यन्निका सा तु सुवेषा पर्यवेषयत् ॥६॥ तयोर्वातात्प्रियाकर्तुं निराकर्तुं च मक्षिकाः । धुन्वती व्यजनं चक्रे कर्मैकं व्यर्थकारि सा ॥७॥ वीजनालोलदो:सिञ्जत्कङ्कणां तां मृगेक्षणाम् । देवदत्तो भृशं पश्यन्नभूत् कामवशंवदः ॥८॥ तद्रूपरसनिस्यन्दपाननिस्पन्दलोचनः । . सोऽविदन् भोजस्वादं बुभुजे गजलीलया ॥९॥ देवदत्तो द्वितीयेऽह्नि जयसिंहादथान्निकाम् । स्वमित्रैर्याचयामास सोऽपि तानेवमूचिवान् ॥१०॥ कुलीनोऽयं कलाज्ञोऽयं सश्रीकोऽयं सुधीरयम् । युवाऽयं किं बहु ब्रूमः सर्वे वरगुणा इह ॥११॥ किन्तु यामि प्रदास्यामि तस्मै यो मे गृहात् क्वचित् । न याता वीक्ष्यते प्रातरुत्थितैः स हि सज्जनः ॥१२॥ १. ग. घ. दृशाविव । 15 क
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy