________________
गुणानुमोदनाद्वारेऽन्निकापुत्रकथा ]
मिथ्या मे दुष्कृतं केवल्याशातित इति ब्रुवन् । आचार्यः प्रवया दध्यौ सेत्स्यामि किमहं न वा ? ॥८५॥
केवल्यूचे मुनिश्रेष्ठाः ! मा कृषीध्वमनिर्वृतिम् । गङ्गामुत्तरतां वोऽपि भविष्यत्येव केवलम् ॥८६॥ उत्तरीतुं ततो गङ्गां लोकेन सह सूरयः । तदैवारुरुहुर्नाव को हि स्वार्थमुपेक्षते ? ||८७|| स सूरिः पुण्यसारत्वाद् निषसाद यतो यतः । ततस्ततोऽनमद् बेडा तद्भारेणाऽधरीकृता ॥८८॥ ततो नौस्थितलोकेन सूरिः सोऽक्षेपि वारिणि । शूले न्यधात् प्रवचनप्रत्यनीकामरी च तम् ॥८९॥ अप्कायादिदयासारं स सूरिर्भावयंस्तदा । क्षपकश्रेणिमारूढोऽन्तकृत्केवल्यजायत ॥९०॥
तुरीयशुक्लध्यानस्थः सद्यो निर्वाणमाप सः । निर्वाणमहिमानं च तदासन्ना व्यधुः सुराः ॥९१॥ यस्मिन् शिवगतिमहिमा चक्रे सुमनोभिरन्निकासूनोः । तीर्थं प्रयाग इति तद्भवति स्म भुवीह विख्यातम् ॥९२॥
॥ इत्यन्निकापुत्रकथा ॥
२७३ ]
5
10
15