________________
२६३]
गुणानुमोदनाद्वारे विष्णुकुमारकथा ]
यूयं तु गर्वकठिनाः सर्वपाखण्डदूषिणः । विप्रनिन्दापराः क्षिप्रमिदं राज्यं तदुज्झत ॥५०॥ तमूचुः सूरयो नास्मत्कल्पोऽयं तेन नागताः । न निन्दामश्च कमपि समभावा हि साधवः ॥५१॥ वचसा शीतलेनापि तप्ततैलमिवाम्बुना ।। प्रज्ज्वलन् नमुचिः प्राह सूरीनूरीकृतः क्रुधा ॥५२॥ दत्ता सप्ताह्निकाऽह्नाय यात यूयं यथारुचि । तदूर्ध्वं तु यथादृष्टं हंस्यामि जिनलिङ्गिनम् ॥५३॥ . श्रुत्वेति वसतावेत्य जगदुः सूरयो यतीन् । किं विधेयं महासत्त्वाः ! सङ्कटेऽस्मिन्नुपस्थिते ? ॥५४॥ अथैकः प्राह भगवन् ! महापद्मस्य सोदरः । अनेकलब्धिमान् विष्णुकुमारोऽस्ति महातपाः ॥५५।। तद्वाक्यान्नमुचिर्नूनमसावुपशमिष्यति । विना भानुप्रभां नैशं तमो नश्यति कर्हिचित् ? ॥५६॥ परं मन्दरशैलेऽस्ति तप्यमानः स साम्प्रतम् । यो विद्यालब्धिमान् साधुस्तमाह्वातुं प्रयातु सः ॥५७॥ अथान्यः प्राह गमने शक्तिर्नागमने तु मे । गुरुस्त्वाह भवान् विष्णुकुमारणागमिष्यते ? ॥५८॥ गुर्वाज्ञातः समुत्पत्य गरुत्मानिव स क्षणात् । . ययौ विष्णुकुमारेण शालमानं शिलोच्चयम् ॥५९।। दृष्ट्वा विष्णुकुमारस्तं निश्चिकायेति चेतसि । सङ्घकार्यं ध्रुवं किञ्चित् प्रावृष्येव यदागतः ॥६०॥ ततो नतोऽमुना विष्णुकुमारस्तत्तथा कथाम् । श्रुत्वाऽस्मात् सह तेनैवोत्पत्यागाद् गुरुसन्निधौ ॥६१।।