________________
5
10
15
20
[ २६४
गुरून् नत्वा तदाज्ञातो गतश्च नमुचेः सदः । तं विनाऽन्यैर्नृपैर्नत्वोपावेश्यत महासने ॥६२॥ तत्र विष्णुकुमारोऽधर्माख्यानपुरस्सरम् । नमुचिं प्राह सन्त्वेते यावद्वर्षा महर्षयः ||६३|| नमुचिस्तूचिवान् राज्यं हित्वा मेऽथ वसन्त्वमी | मुनिरूचे पुरे चेन्न सन्तूद्याने पुराद् बहिः ||६४|| कोपाद् नमुचिरूचेऽथ पुरोद्यानस्य का कथा ? राज्येऽपि मम न स्थेयं कार्यं चेज्जीवितेन वः ॥६५॥ सप्रहासं मुनिः प्राह राज्यमम्भोधिसीम ते । तत्त्याज्यं कथमेतेषां देहि स्थानं पदत्रयम् ॥६६॥ नमुचिः प्राहः दत्त चेत् प्रेक्षिष्येऽहमतो बहिः । तं करिष्ये शिरश्छित्त्वा धकाराक्षरसोदरम् ॥६७॥ ततो विष्णुं शरीरान्तः कोपेनव प्रसर्पता । ववृधे हिमवन्मुख्यान् पर्वतानपि खर्वयन् ॥६८॥ `नमुचिः पाष्णिघातेन पातितस्तेन चासनात् । परासुः प्रययौ शीघ्रं सप्तमीं नरकावनिम् ॥६९॥ त्रस्तं चीत्कृत्य दिग्नागैस्तं वीक्ष्याथ भयङ्करम् । धिष्ण्यैस्तुषवदुड्डीनं तद्भ्राणाकोणमारुतैः ॥७०॥ ताटङ्गितेन्दुमार्तण्डं ललामितसुरापगम् ।
तं वीक्ष्याद्रिदरीमिन्द्रोऽविशद् मुक्त्वा कृशोदरीम् ॥७१॥ विज्ञायावधिनेन्द्रस्तं मुनीन्द्रं कुपितं ततः । प्रैषीदस्य प्रबोधाय गान्धर्वानीकगायनीः ॥७२॥ कर्णाभ्यर्णं समेत्यैतास्तस्य गीतानि तेनिरे । उत्फणस्य महामन्त्रवादिन्य इव भोगिनः ||७३ ॥
[ विवेकमञ्जरी
१.
क. ग. घ. पाददर्दरिकाघातैश्चकम्पे तस्य मेदिनी । तदात्वग्रस्तनमुचिविषभ्रमिभरादिव ॥ ६९ ॥