________________
[२५८
[विवेकमञ्जरी अथ चतसृभिर्गाथाभिर्मुनिमतल्लिकानिकायं नामतः प्रस्तुवन्नाह - धन्नो तह कयपुन्नो विण्हुकुमारो य अन्नियाउत्तो । जसभद्द-भद्दबाहू अइमुत्तो नागदत्तो य ॥५०॥ सिज्जंभवो अ पभवो सिरिओ उदायणो अ मासतुसो । केसी इलाइपुत्तो मेहकुमारो अ पुंडरीओ ॥५१॥ अद्दयकुमारसाहू कित्तिधरो नंदिसेण-करकंडू । हल्ल-विहल्लमुणिंदा साल-महासाल-सीहगिरी ॥५२॥ अज्जमहागिरि-अज्जसुहत्थी तह अज्जरक्खिओ संबो । पज्जुन्नमुणी कुम्मापुत्तो तह भद्दगुत्तो य ॥५३॥
[धन्यस्तथा कृतपुण्यो विष्णुकुमारश्चान्निकापुत्रः । यशोभद्रो भद्रबाहुरतिमुक्तो नागदत्तश्च ॥ शय्यंभवश्च प्रभवः श्रीयक उदायनश्च माषतुषः । केशीलातिपुत्रो मेघकुमारश्च पुण्डरीकः ॥ आर्द्रकुमारसाधुः कीर्तिधरो नन्दिषेणकरकण्डू । हल्लविहल्लमुनीन्द्रौ शालमहाशालसिंहगिरयः ॥ आर्यमहागिर्यार्यसुहस्ती तथाऽऽर्यरक्षितः शाम्बः ।।
प्रद्युम्नमुनिः कूर्मापुत्रस्तथा भद्रगुप्तश्च ॥] व्याख्या - आसां पदार्थः स्पष्टः । व्यासार्थस्तु कथानकेभ्योऽवसेयः ॥ तत्र धन्यः शालिभद्रकथायाम्, कृतपुण्यः पुनरभयकुमारकथायामुद्दिष्टः । सम्प्रति 20 विष्णुकुमारकथा यथा -
$$ कुरुषु स्वस्तिभागस्ति हस्तिनागपुरं पुरम् । तत्रेक्ष्वाकुरभूत् क्षोणीपतिः पद्मोत्तराभिधः ॥१॥
15
१. ग. घ. उद्दाय ।