________________
[२५७
गुणानुमोदनाद्वारे जम्बूस्वामिकथा ]
ततः श्रीवीरनिर्वाणाद् व्यतीत्य दशहायनीम् । सुधर्मस्वामिना जम्बूस्वामी स्वामी गणे कृतः ॥१६५॥ श्रीसुधर्मगणाधीशे श्रिते निःश्रेयसश्रियम् । जम्बूः प्राबोधयद् विश्वं सरोजमिव भास्करः ॥१६६॥ अथ वर्षचतुःषष्टै गतायां वीरनिर्वृतेः । श्रीजम्बूस्वामिना चक्रे गच्छेशः प्रभवः प्रभुः ॥१६७॥ आजन्मशीलकलनादिह जम्बुनाम्नि सौभाग्यमद्भुतमिहैव विभौ बभूव । यस्मादमुं समधिगम्य गतेऽपि तस्मिन् अद्यापि नान्यमधिगच्छति केवलश्रीः ॥१६८||
॥ इति जम्बूस्वामिकथा ॥४९॥