SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 10 15 20 २५६ ] रत्नाभरणसंभारैः सत्त्वसारैरिवाञ्चितः । असमैः कुसुमैः स्वस्य यशोभिरिव शोभितः ॥१५३॥ संवीतः सितवासोभिः पुण्येन्दुकिरणैरिव । - बाह्यान्तरसहस्रेण शिबिकामधिरूढवान् ॥ १५४॥ कलापकम् ॥ "ततो जन्मान्तरस्नेहरसेन सहचारिणा । अनादृतेन देवेन कृतनिष्क्रामणोत्सवः ॥१५५॥ प्रवेशिताभिराकम्य सैन्यवारित्रभूभृतः । सेनाभिरिव पञ्चेषोः प्रियाभिस्ताभिरावृतः ॥ १५६॥ दानैरावर्जयन् दीनांस्तूर्यैर्मुखरयन् नभः । मायूरच्छत्रदण्डेन मण्डलं तिरयन् रवेः ॥१५७॥ आलोक्यमानो लोकेन विस्मयालोलमौलिना । पौरीभिर्दीयमानाशीरक्षतक्षेपपूर्वकम् ॥१५८॥ वन्दिवृन्दजयध्वानमुखरीकृतदिङ्मुखः । [ विवेकमञ्जरी सुधर्मस्वामिपादाब्जपावनं वनमीयिवान्" ॥१५९॥ पञ्चभिः कुलकम् ॥ याप्ययानादथोत्तीर्य प्रतीष्टाचारमङ्गलः । मध्ये प्रविश्य नत्वा च गुरुपादान् व्यजिज्ञपत् ॥ १६०॥ संसारसागरोत्तारकर्णधारमुनीश्वर ! । मां सकुटुम्बं चारित्रयानपात्रेण तारय ॥१६१॥ ततः स्वपाणिपद्मेन गणधारिधुरन्धरः । स्वजनैरन्वितं जम्बूकुमारं तमदीक्षयत् ॥१६२॥ प्रभवोऽप्यन्यदाऽभ्येत्य सुधर्मस्वामिसन्निधौ । भावशत्रुप्रतिक्षेपदक्षो दीक्षामुपाददौ ॥ १६३ ॥ गणधारिधुरीणेन तदानीं प्रभवो मुनिः । कृतः सुकृतवान् जम्बूपादाम्बुजमधुव्रतः ॥ १६४॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy