SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे जम्बूस्वामिकथा ] सूचीभिरग्निवर्णाभिर्भिद्यमानस्य लोमसु । यथा दुःखं भवेज्जन्तोर्गर्भेऽष्टगुणितं तथा ॥ १४१॥ हन्तनाल इवामेध्ये कीट इव वसन् भवी । नवमासोऽहानि चत्वारि नयत्यसमदुःखभाक् ॥१४२॥ तत्रस्थश्चिन्तयत्येष निसृतोऽतः कथञ्चन । तत्करिष्ये यथा नात्र भूयोऽपि निपताम्यहम् ॥१४३॥ ततोऽपि जायमानस्य यद् दुःखं योनिसङ्कटे । मूच्छितस्येव जाल्मोऽयं न स्मरेद् घातमात्मनः ॥१४४॥ स्मारितोऽहं तु तत्पूज्यैरपुनर्भवनायकैः । स्मृत्वा तच्च भवत्योऽपि भवताऽध्वनि मामके" ॥१४५॥ अथोत्तरङ्गवैराग्यरसाङ्गीकृतचेतसः । अष्टावपि समं जम्बूकुमारमिदमभ्यधुः ॥१४६॥ आश्रितो यस्त्वया पन्थाः सोऽस्माभिरपि संश्रितः । ततः सहैव नेतासि तेनास्मान् शिवपत्तनम् ॥१४७॥ उवाच प्रभवोऽप्युच्चैर्महासत्त्व ! भवद्गुणैः । कृष्टस्त्वामनुयास्यामि पुत्राद्यापृच्छ्य सत्वरम् ॥१४८॥ मा प्रमादीर्महाभाग ! विवेकोचितमाचरे: । इत्युक्तो जम्बुना यातः प्रभवो भवनं निजम् ॥१४९॥ ज्ञात्वा जम्बूकुमारस्य सदारस्यापि निश्चयम् । श्वशुराः पितरौ वाऽऽसंस्तमेवानुयियासवः ॥१५०॥ "अथ जम्बूकुमारोऽपि विधाय जिनपूजनम् । सङ्घं विधिवदभ्यर्च्य संमान्य स्वजनादिकान् ॥१५१॥ स्नानीयगन्धपानीयकृतमज्जनमङ्गलः । चन्दनेन सितध्यानेनेव सर्वाङ्गभासुरः ॥१५२॥ [ २५५ 5 10 151 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy