SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे विष्णुकुमारकथा ] ज्वालादेवी च लक्ष्मीश्चाभूतां द्वे तस्य वल्लभे । सम्यग्दृष्टिस्तयोराद्या मिथ्यादृष्टिः परा पुनः ॥२॥ प्रासूत द्वौ सुतो ज्वाला सिंहस्वप्नेन सूचितः । तयोराद्योऽभवद् विष्णुकुमार इति विश्रुतः ॥३॥ चतुर्दशमहास्वप्नसूचितः क्ष्मावसूचितः । द्वितीयस्तु महापद्म इत्यभूत् पद्मलोचनः ॥४॥ उभावपि शुभाकारौ तौ नरेन्द्रकुमारकौ । अवर्धेतामर्भकत्वं चन्द्रादित्याविवाश्रितौ ॥५॥ कलाकलापकलितौ तौ क्रमेण कुमारकौ । युवतीदृक्पिकीचूतवनं यौवनमीयतुः ||६|| प्रकृत्याऽगृध्नुना विष्णुकुमारेण निराकृते । राज्ञाथ युवराजत्वे महापद्मो न्यवेश्यत ॥७॥ इतश्चोज्जयिनीपुर्यां श्रीवर्मा पार्थिवोऽभवत् । मिथ्यात्वरुचिरासीच्च मन्त्री नमुचिसञ्ज्ञितः ॥८॥ तत्पुरोपवनेऽन्येद्युः शिष्यः श्रीसुव्रतप्रभोः । समेत्य सुव्रताचार्यः शमवान् समवासरत् ॥९॥ तद्वन्दनाय निर्यान्तं वीक्ष्य राजा पुरीजनम् । पप्रच्छ नमुचिं लोकोऽस्तोकोऽयं क्व नु गच्छति ? ॥१०॥ नमुचिः प्राह देवात्रोपवने केऽपि सूरयः I सन्त्यायाताः प्रणन्तुं तांस्तद्भक्त्या यान्त्यमूः प्रजाः ॥११॥ राजोचे यावस्तर्ह्यावामपि मन्त्र्याह तत्र च । मध्यस्थेन त्वया भाव्यं तान् करिष्ये निरुत्तरान् ॥१२॥ ओमित्युक्त्वा नृपस्तेन सह सूरीनुपाययौ । धर्मतत्त्वं च नमुचिः पप्रच्छाक्षिप्य तानथ ॥ १३॥ २५९] 5 10 15 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy