________________
२५२]
[विवेकमञ्जरी
यथा सरोऽभिगच्छन्ति क्ष्माचराः खेचरा अपि । तृष्णाच्छिदे तथा यान्ति गृहस्थं धार्मिकाः परे ॥१०५॥ गृहिधर्मं दुराधेयं सुरैरप्यसुरैरपि। पालयन्ति नराः शूरा दुरादुज्झन्ति चापरे'' ॥१०६॥ “अथ जम्बूरुवाचेशमुपकुर्वन्ति सेवकाः । प्रधानत्वं तदीशस्य सेवकेषूपयुज्यते ॥१०७॥ मानुषत्वच्युतेः पान्ति दिशन्ति च परं पदम् । क्षेमयोगकृता नाथा लिङ्गिनस्तेन गेहिनीम् ॥१०८॥ न ध्यायन्ति न जल्पन्ति न चलन्ति न भुञ्जते । सावधं यतयो ये ते गृहिभ्यो नोत्तमाः कथम् ? ॥१०९॥ मेरु-सर्षपयोर्यद्वदन्तरं रवि-कीटयोः। वार्धि-गोष्पदयोर्यद्वत्तद्वद् यति-गृहस्थयोः ॥११०॥ खण्डनी पीषणी चुल्ली पयःकुम्भी प्रमार्जनी । पञ्चशूना गृहे तेन दूना गृह्णीमहि व्रतम्" ॥१११॥ .. "जगाद पद्मसेनाथ नाथ ! ते सुन्दरं वपुः ।
व्रतकष्टोचितं नैव कदलीगर्भकोमलम्" ॥११२॥ "अथ जम्बूरुवाचेदमशुचेः कृतघातिनः ।
कापेक्षा वपुषः प्रेक्षावतां शश्वद्विनाशिनः? ॥११३॥ स्वतन्त्रः परतन्त्रेण निर्मलः समलेन च ।
देहेन चेदुपा]त धर्मस्तत्थूणमत्र किम् ?" ॥११४॥ "जगाद जयसेनाथ नाथ ! तीर्थकरैरपि ।
कृत्वा राज्यं परिव्रज्याददे तत्त्वं किमुत्सुकः ?" ॥११५।। "जम्बूरथाह ते ज्ञानादविदन् कालमात्मानः स्पर्धा तै!ऽस्तु काऽऽतङ्के प्रजानामिव राजभिः ? ॥११६॥