________________
[२५१
गुणानुमोदनाद्वारे जम्बूस्वामिकथा]
बन्धूनां प्रतिबन्धस्य खलूक्त्वा वार्त्तयापि तत् । धर्म एवाङ्गिनां शर्म दत्ते माता पिता सुहृत्" ॥१३॥ "अथाह प्रभवः पुत्रमुत्पाद्य प्रव्रजेस्ततः । .
अपुत्रस्यास्ति न स्वर्गो न च तृप्तिरमुत्र यत्" ॥१४॥ "विहस्याथ जगौ जम्बूगिरा शम्बूकगौरया। स्वर्गः पुत्रेण चेत् पुंसां वृथा धर्मक्रिया ततः ॥१५॥ श्वानशूकरसर्पाद्या दृश्यन्ते बहुसूनवः । तत् ते दिवं प्रयास्यन्ति न बालब्रह्मचारिणः ? ॥१६॥ पुत्रैरावर्जितं पिण्डं लभन्ते पितरौ यदि । तृप्तास्तत् किमु भुक्तेन कस्यापि पितरो वयम् ॥१७॥ विषयप्रोतयालं तत्पुत्रोत्पादनवार्तया । इत्युक्ते जम्बुना जज्ञे प्रभवः पिहितोत्तरः" ॥१८॥ "अथोवाच समुद्रश्री थेयं श्रीरनर्गला ।
प्राप्ता त्वया कथमिमां हित्वा भिक्षुत्वमीहसे?" ॥१९॥ "जम्बूरुवाच है कम्बूपमकम्बि ! निशम्यताम् ।
को विश्वासः श्रियोऽमुष्याश्चञ्चला चपलेव या ? ॥१०॥ यात्मनो जनकं धर्मं हन्ति नित्योपकारिणम् । निस्त्रपायाः श्रियस्तस्याः पतिद्रोहेऽपि का त्रपा ॥१०१॥ तदेनां स्वयमुत्सृज्य प्रव्रजिष्यामि भामिनि !। त्यज्यमानं प्रतीक्षिष्ये नात्मानमनया पुनः" ॥१०२॥ "पद्मश्रीरित्यथावादीदनादीनव ! नाथ ! ते । गार्हस्थ्यादपरो धर्मः शर्मदो नोपयुज्यते ॥१०३।। गृहस्थाधारतो धर्मे यतन्ते यतयोऽपि हि । पक्षपाताद् विना मातुर्जीवन्ति क्व तु जन्तवः ? ॥१०४॥