SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २५०] [विवेकमञ्जरी काङ्क्षामि यदहं गेहविरहं निरहङ्कृतिः । व्रतं प्रातर्ग्रहीष्यामि सुधर्मस्वामिसन्निधौ ॥८१॥ अथाह प्रभवः श्रीमन्निति प्राभवभाग्भवान् । .. भुनक्ति नैव किं भोगान् व्रताय यतसे कुतः ? ॥८२॥ वरेणेदमथावादि तथावादिनि तस्करे । सकर्ण ! त्वमुभाकर्णि समाकर्णय मगिरम् ।।८३।। "रसवीर्यविपाकेन किम्पाकेभ्योऽपि दारुणात् । अभिज्ञः कोऽनुभुञ्जीत विषयान् मुखपेशलान् ? ॥८४॥ विरसा अपि रोचन्ते विषया विकृतात्मसु । कषायिणि मुखे क्षारमपि क्षीरायते जलम् ॥८५॥ विषयेच्छावशः प्राणी परिभूयेत कर्मभिः। आशाबद्धो रसः किं न क्रियते भस्म वार्त्तिकैः ? ॥८६॥ तदलं विषयातासारैः सुगुरुसङ्गमात् । तिष्ठामहे महानन्दसौख्यायानन्तसम्पदे" ॥८७॥ . "अथाह प्रभवः स्वास्मिंस्त्वं बन्धुषु पराङ्मुखः । पितरौ दुष्प्रतीकारौ कथङ्कारं विमुञ्चसि ?" ||८८॥ "अथ जम्बूरुवाचनमहो मोहः शरीरिणाम । बान्धवो बन्धवः केऽत्र पितरौ पितरश्च के ?" ॥८९॥ . पितृमातृसहस्राणि भ्रातृपुत्रायुतानि च । जातौ जातैर्व्यतीतानि कस्याहं कस्य ते पुनः ? ॥१०॥ अहमेको न मे कोऽपि नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं दृश्यते न स यो मम ॥११॥ मातृभूय पितृभूय पुत्रादीभूय भूरिशः । प्राणिनोऽत्र विवर्तन्ते ज्ञातेयं क्वोपयुज्यताम् ? ॥१२॥ 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy