________________
[२५३
10
गुणानुमोदनाद्वारे जम्बूस्वामिकथा]
कृतान्तस्य करोऽकस्मादेत्यकस्मादलक्षितः। कहिं चालयिता सार्थं सम्बलेन वदाङ्गिनाम् ॥११७॥ दुष्कर्मचौरहन्तारः सहायाः साधवोऽद्य मे । कुर्वन् पथ्यदनं धर्मं यामि तन्मुक्तिपत्तनम्" ॥११८॥ "नभःसेना विहस्याथ जगौ नाथ तव भ्रमः । मानसे वासितः केन वद स्वर्गापवर्गयोः ? ॥११९॥ भवोऽयमेव दौर्गत्यवतां दुर्गतिरिष्यते । स एव श्रीमतां स्वर्गोऽपवर्गो रतिशालिनाम्" ॥१२०॥ "अथ जम्बूर्जगादेति वदन्ती नापराध्यसि । तैलमेवामृतं तस्य येनाज्यं नैक्षि कर्हिचित् ॥१२१॥ स्वर्गापवर्गयोः सौख्यप्रमाऽणुनभसोरिव । यत्र तत्र प्रिये ! मर्त्यसुखाभासस्य का कथा ? ॥१२२॥ सुषुप्तिक्षुत्तृषामतिरतिर्मूत्रपुरीषयोः । अतिर्भोगे वियोगे च क्व नातिर्मय॑जन्मनि ? ॥१२३॥ तद् विमुच्यासुखमयान् भोगान् रोगानिवैहिकान् । मोक्षसौख्यलताबीजं ग्रहीष्ये गृहिणि ! व्रतम्" ॥१२४॥ "कनकश्रीरथोवाच न कः प्रार्थयते सुखम् ? । परं प्रत्यक्षमेवैतत्परोक्षस्य कथा वृथा ॥१२५॥ तपः क्रियते भोगेभ्यस्तेषु लब्धेषु तद् वृथा । प्रज्वालयति को वह्निमन्ते पाकमुपेयुषि ?" ॥१२६।। "अथ जम्बूर्जगौ प्रत्युत्पन्नदृष्टिस्त्वमीदृशी। प्रत्युत्पन्नदृशां दीर्घदृश्वरास्त्ववनीश्वराः ॥१२७॥ स्वर्गापवर्गदं प्राप्य मानुष्यं तत्सुखस्पृशः । विनश्यन्त्यायतौ मूढा बीजभोजिकुटुम्बिवत् ॥१२८॥