SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ [२४५ 10 गुणानुमोदनाद्वारे जम्बूस्वामिकथा] क्षेत्रे महाविदेहेऽथ विजये पुष्कलाऽभिधे । नगर्यां वीतशोकायां भवदेवो दिवश्च्युतः ॥२१॥ पुत्रः पद्मरथस्यासीद् वनमालाङ्गसंभवः । नाम्ना शिवकुमारोऽयं पितृभ्यां परिणायितः ॥२२॥ युग्मम् ।। अन्यदाऽसौ गवाक्षस्थः सार्थवाहस्य कस्यचित् । वेश्मन्युपात्तसद्भिक्षं मुनिमेकमलोकत ॥२३॥ अथास्थानगतं पापवारणं कृतपारणम् । गत्वा नत्वा मुनिं राजाङ्गजोऽन्ते समुपाविशत् ॥२४॥ ततोऽसौ ज्ञानवानूचे भवदत्तोऽस्म्यहं पुरा । भवांश्च भवदेवोऽभूदावामात्तव्रतौ तथा ॥२५॥ दिवश्च्युत्वाहमभवं विजयेऽत्रैव विश्रुते । नगर्यां पुण्डरीकिण्यां वज्रदत्तस्य चक्रिणः ॥२६॥ पत्न्यां यशोधराख्यायां सुतः सागरसञ्जितः । पिता धात्रीशपुत्रीभिस्तरुणः परिणायितः ॥२७॥ युग्मम् ॥ एकदाऽनेकदारान्तर्वर्ती मन्दिरमूर्द्धनि । दृष्टनष्टघनालोकात् प्रबुद्धौ व्रतमादिषि ॥२८॥ गृहीततीर्थकृद्दीक्षो गुरोरमृतसागरात् । तप्यमानोऽवधिज्ञानी चाभवं प्रधिषन् भवम् ॥२९॥ श्रुत्वा शिवकुमारोऽदः प्रबुद्धः शुद्धमानसः । नत्वा यति गतः प्रष्टुं पितरौ निश्चितव्रतः ॥३०॥ पितृभ्यामननुज्ञातस्ततश्चाकृतभोजनः । गत्वा पौषधशालायां तस्थावस्थानमंहसाम् ॥३१॥ अथैष जगतीभर्तुरादेशाद् दृढधर्मणा । श्राद्धेन बोधितो भुते षष्टादाचाम्लपारणः ॥३२॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy