________________
२४४]
[विवेकमञ्जरी
श्रेणिकक्षोणिकान्तेन पृष्टः स्पष्टमिति प्रभुः। देवस्य तस्य वृत्तान्तं कथयामासिवानिति ॥९॥ युग्मम् ॥ राजन् ! मगधदेशेऽत्र ग्रामे सुग्रामनामनि । राष्ट्रकूटान्वयी श्रीमानार्यावानार्यवागभूत् ॥१०॥ रेवतीकुक्षिजौ तस्य सुतौ भुवनविश्रुतौ । अभूतां भवदत्तश्च भवदेवश्च नामतः ॥११॥ भवदत्तोऽग्रहीद् दीक्षां सुस्थिताचार्यसन्निधौ । भवदेवमपि क्रष्टुं भवाद् ग्राहयति स्म तम् ॥१२॥ भवदेवः प्रियां दध्यौ दामितोऽपि तपस्यया । लज्जया धारितः क्षुद्रः स्मरत्येव मरुस्थलीम् ॥१३।। धुगते भवदत्तेऽथ भवदेवः प्रियामगात् । भग्नालानः करी विन्ध्याटवीमेवाभिधावति ॥१४॥ अथ श्रलथगुणग्रामः सुग्रामग्रामसीमनि ।
चैत्यसमेतयेत्युक्तः स शमी कान्तया तया ॥१५॥ "मूढाशय ! नवामूढामिव मां मनुषे हदि । जरारजर्जरितां पश्य संसारस्य कुसारताम् ॥१६॥ अस्मिन् पवित्रवस्तूनामपावित्र्यनिबन्धने । देहे जरापरायत्ते विमुह्यस्यधुना मुधा ॥१७॥ विषं माममृतं दीक्षामन्यथा मा स्म मन्यथाः । तद् व्याघुट्य झटित्येव गुरुं व्रज कुरु व्रतम्" ॥१८॥ इति प्रबोधितः प्रीतो नागिलाया गिरा चिरात् । साधु साध्विति तां स्तुत्वा साधुः सूरिं रयादयात् ॥१९॥ आलोच्य तद् गुरोरग्रे तदुक्तं स व्रतं व्यघात् । येनाजनिष्ट सौधर्मे प्रभातिभासुरः सुरः ॥२०॥
15