SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २४६] [विवेकमञ्जरी . ईदृक्तप:प्रकाशी च प्राशुकाशी व्रतीव सः । तत्र शुश्रूषितत्रुट्यत्कर्मणा दृढधर्मणा ॥३३॥ अथ द्वादशवर्षान्ते भावनियूंढसंयमः। .. विद्युन्मालीतिं देवोऽभूद् ब्रह्मलोकेऽद्भुतद्युतिः ॥३४॥ राजन् सोऽयमिति श्रुत्वा श्रेणिकः पुनरब्रवीत् । भविष्यति भुवि स्वामिन् कीदृशोऽयमतश्च्युतः ? ॥३५॥ विभुराह पुरेऽत्रैव ऋषभश्रेष्ठिसूरसौ । जम्बूनामावसर्पिण्यां भावी चरमकेवली ॥३६।। तद् विद्युन्मालिनः कान्ताश्चतस्त्रो विनयाऽऽनताः । तीर्थेशमिति पप्रच्छु: कास्माकं भाविनी गतिः ? ॥३७॥ श्रेष्ठिनां तनुजीभूय यूयमप्यस्य योषितः । भविष्यथ पुरेऽत्रैव तदिदं विभुरभ्यधात् ॥३८॥ अथ तदिवसादेव स देवः सप्तमेऽहनि। धारिण्या ऋषभश्रेष्ठिपत्न्याः कुक्षाववातरत् ॥३९॥ पूर्णैरथ दिनैः श्रेष्ठिप्रिया सा सुषुवे सुतम् । आनन्दामृतरोचिष्णुं सरसीव सरोरुहम् ॥४०॥ इतश्च श्रेष्ठिनो भ्राता जिनदास इति श्रुतः । मृत्वा शाश्वतजम्बूद्रौ जातवानस्ति दैवतम् ॥४१॥ तस्योपयाचितादेष प्रसूतः सूनुरित्यथ । पितृभ्यां विहितो जम्बूकुमार इति नामतः ॥४२॥ . समुद्रश्रीरिति तथा पद्मश्रीरिति च श्रुता । पद्मसेनेति कनकसेनेति च समाख्यया ॥४३॥ विद्युन्मालिसुरस्यैताश्चतस्रश्चित्तवल्लभाः। . गृहेषु श्रेष्ठिमुख्यानामवतेरुर्दिवश्च्युताः ॥४४॥ युग्मम् ॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy